________________
२०८ न्यायमञ्ज
[ सप्तमम् आत्मानमात्मनात्मैव लिङ्गादनुमिनोति हि । तत्र नूनमुपेतव्या कर्तृता कर्मतास्य च ॥ तत्रानुमानज्ञानस्य यथात्मा याति कर्मताम् । तथाहंप्रत्ययस्यैव प्रत्यक्षस्यापि गच्छतु ।। देहादिव्यतिरिक्तश्च यथा लिङ्गेन गम्यते ।
तथाहंप्रत्ययेनापि गम्यतां तद्विलक्षणः ।। न चात्मनः किं रूपं यत् प्रत्यक्षेण साक्षाक्रियते ? यद्येवं सुखादेरपि किं रूपं यन्मानसप्रत्यक्षसमधिगम्यमिष्यते ?
नन्वानन्दादिस्वभावरूपं प्रसिद्धमेव सुखादेस्तहि तदाधारत्वमात्मनोऽपि रूपमवगच्छतु भवान् ।
सुखादि चेत्यमानं हि स्वतन्त्रं नानुभूयते । मतुबनुवेधात्तु सिद्धं ग्रहणमात्मनः ।। इदं सुखमिति ज्ञानं दृश्यते न घटादिवत् ।
अहं सुखीति तु ज्ञप्तिरात्मनोऽपि प्रकाशिका ।। अपि च,
ज्ञातृज्ञानविशिष्टार्थग्रहणं किल भाष्यकृत् । स्वयं प्रादीदृशत् तच्च किं वा युक्तमुपेक्षितुम् ।। विशेष्यबुद्धिमिच्छन्ति नागृहीतविशेषणाम् । पूर्वञ्चाननुभूतस्य स्मरणं नावकल्पते ।।
__10
भाष्यकृत् स्वयं प्रादीदृशदिति । तथा च न्यायभाष्यम्- "येयं स्मृतिरगृह्यमाणेऽर्थेऽज्ञासिषम[हम] मुमर्थमिति, अस्या ज्ञातृज्ञानविशिष्टः पूर्वज्ञातोऽर्थो विषयो नार्थमात्रम्, अज्ञासिषममुमर्थम्, ज्ञातवानहममुमर्थम्, असावर्थो मया ज्ञातः, अमुष्मिन्नर्थे मे ज्ञानमभूदिति चतुर्विधमप्येतद् वाक्यं स्मृतिविषयप्रज्ञापकं समानार्थम् । सर्वत्र खल्वत्र ज्ञाता ज्ञानं ज्ञेयञ्च गृह्यते” इत्यादि । अत्र ज्ञातृविशिष्टार्थस्मरणं समर्थितम् । तथाभूतस्यैवानुभवो वाच्यः। न च अगृहीतविशेषणन्यायेन तज्ज्ञेयग्रहणसमये ज्ञातुरप्यवगमोऽ. भ्युपेयः । न च यदा ज्ञेयग्रहणं तदानुमानतो ज्ञाततादिलिङ्गाद् आत्मनो गृहीतिर्गृही
25