________________
10
आह्निकम् ] प्रमेयप्रकरणम्
२०९ न चानुमानतः पूर्वं ज्ञात्वात्मानं विशेषणम् । - तद्विशिष्टार्थबुद्धिः स्यात् क्रमस्यानवधारणात् ।। तस्मात् प्रत्यक्ष आत्मा।
सामानाधिकरण्यञ्च स्मरणानुभवादिषु ।
अनुसन्धीयमानं यद् दृश्यते तत्कथं भवेत् ॥ आत्मनोऽनुमानगम्यत्वमपि
पूर्वमहममुमर्यमनुभूतवानहमेवाद्य पुनरनुभवामीति तुल्यविषयतावत् तुल्यकर्तृकतापि तत्र प्रकाशते, इतरथा त्वनुमातुमप्यात्मा न शक्यते ।
ज्ञानेच्छासुखदुःखादि किलेदं लिङ्गमात्मनः । एकाश्रयतया ज्ञातमनुसन्धातृबोधकम् ॥ तथात्वेन च तज्ज्ञानमाश्रयज्ञानपूर्वकम् । ज्ञाते तत्राफलं लिङ्गमज्ञाते तु न लिङ्गता ॥ तस्मात् प्रत्यक्ष एवात्मा वरमभ्युपगम्यताम् । वृद्धागमानुसारेण संविदालोकनेन च ॥ अथवाभिनिवेशेन किमनेन प्रयोजनम् ।
अनुमेयत्वमेवास्तु लिङ्गेनेच्छादिनात्मनः ॥ तदाह सूत्रकारः, 'इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम्' । इच्छा नाम तावदित्थमुपजायते यज्जातीयमर्थमित्थमुपयुञ्जानः पुरुषः पुरा सुखमनुभूतवान्, पुनः कालान्तरे तज्जातीयमुपलभ्य सुखसाधनतामनुस्मृत्य तस्य च स्मरणमिति। यदाह क्रमस्यानवधारणाद् ग्रहणसमय इत्यर्थः ।
20 एकाश्रयतया ज्ञातमिति । यस्यैव प्रागनुभवस्तस्यैव दर्शनक्रमेणेच्छोपजाय. माना पूर्वापरयोरनुसन्धातारमेकं गमयतीत्येकाश्रयत्वं प्रागवश्यमभ्युपेयम् । अनुभवेनैकाश्रया इच्छा अनुसन्धातृपूर्विका, एकाश्रयत्वे सतीच्छारूपत्वात्; यत्र पुनरेकानुसन्धातृपूर्वकत्वं नास्ति तत्रैकाश्रयत्वे सतीच्छारूपत्वमपि नास्ति, यज्ञदत्तो(ता)नुभूत इव देवदत्तेच्छायाः । तथात्वेन एकाश्रयतया । अज्ञाते तु न लिङ्गता। न हि यथा तल्लिङ्गं 25 तथा अज्ञातलिङ्गं भवति ।
न्या० म० २७