________________
आह्निकम् ] प्रमेयप्रकरणम्
२०७ च स्वप्रकाशः संविच्च स्वप्रकाशेति । न च निपुणमतिरपि विवेकमीदृशमुपदर्शयितुं शक्नोति भवान् । इयं स्वप्रकाशफलरूपा संवित्, अयं स्वप्रकाशो ज्ञातृरूप आत्मेति । चित्रञ्चेदं यत् तयोर्द्वयोः प्रकाशयोरन्तराले तद्व्यापारः परोक्षज्ञानाख्यः सम्पन्न इति ।
ननु घटमहं जानामीत्यत्र त्रयप्रतिभासो घटमिति विषयः प्रकाशते, 5 अहमित्यात्मा, जानामीति संविदिति, उक्तमत्र घट जानामीति ज्ञानविशेषणविषयप्रतिभासः, अहमिति तु शरीरे ज्ञातृत्वभ्रम एकस्यात्मनो ग्राह्यग्राह्यकत्वानुपपत्तेः । यदपि स्वतश्चेतनस्वभावत्वमात्मनः कथ्यते तदपि न सोपपत्तिकम् । सचेतनश्चिता योगात् तद्योगेन विना जडः।
10 नार्थावभासादन्यद्धि चैतन्यं नाम मन्महे ॥ यदि च स्वत एवार्थावभाससामर्थ्यपक्षे च सर्वज्ञतापत्तिः, अतोऽवश्यं ज्ञानसमवायनिबन्धनमेवात्मनश्चेतयितृत्वम्, न च घटादिभिरतिप्रसङ्ग आशङ्कनीयः, पदार्थस्वभावोपनतस्यैव क्रियावैचित्र्यस्य सर्वलोकप्रसिद्धत्वाच्चेतनादिक्रियाः कर्मसमवायिन्यो न भवन्ति गमनादिक्रियास्तु कर्तृसमवायिन्य 15 एव । न च वस्तुशक्तिरनुयोज्या भवति ।
न जडत्वाविशेषेऽपि कर्मादौ समवैति चेत् । . न द्रव्यत्वाविशेषेऽपि गन्धः स्पृशति पावकम् ॥
तस्मान्न प्रत्यक्ष आत्मा, नापि स्वतश्चेतयितेति स्थितम् । आत्मनःप्रत्यक्षत्वसाधनम्
स्वयूथ्यास्तु केचिदाचक्षते । यदेकस्य कर्तृत्वकर्मत्वमनुपपन्नमित्यप्रत्यक्ष आत्मेष्यते, तदयमनुमानेनापि कथं ग्रहीष्यते ?
न च घटादिभिरतिप्रसङ्ग इति । यदि [सं]वित्तिजनकत्वाद् वैषम्यं तर्हि घटादीनामपि प्राप्तं तदिति ।
द्रव्यत्वाविशेषेऽपोति । यथा द्रव्यत्वे सति पृथिव्या सम्बध्यते गन्धो नैव 25 तेजसेत्यर्थः।
20