________________
२०२
न्यायमञ्जर्य्यां
[ सप्तमम्
चेतनान्यपि भूतानि शरीराकारपरिणतानि चैतन्यं स्प्रक्ष्यन्ति । कालान्ते स्वव्याध्यादिना विशेषमवजहति तान्येव चैतन्यशून्यतामुपयास्यन्ति, चैतन्यत्वानपायाच्च तावन्तं कालं तान्येव स्मृत्यनुसन्धानादिव्यवहारनिवहनिर्वाहणनिपुणतामनुभविष्यन्तीति किमनुमानक आत्मा स्याद् ? आगमास्तु मनोरथा5 धिरूढप्रामाण्याः कथमात्मानमवबोधयितुं शक्यन्ते ? अयमपि चागमोऽस्त्येव 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञाऽस्तीति । तदात्मनो नित्यस्य परलोकिनोऽभावात् कृतमेताभिरपार्थंकपरिश्रमकारिणीभिः परलोककथाभिः ।
1
10
15
20
25
तत्रैव मीमांसकमतम्
तत्र प्रत्यक्षमात्मानमौपवर्षाः
प्रपेदिरे ।
अहंप्रत्ययगम्यत्वात् स्वयूथ्या अपि केचन ॥
अस्त्ययमहंप्रत्ययः कश्चिच्छरीरसमानाधिकरणः स्थूलोऽहं कृशोऽहम्, कश्चिद् ज्ञातृसमानाधिकरणो जानाम्यहं स्मराम्यहमिति । तत्र स्थूलादिसमानाधिकरणस्तावदास्तामहंप्रत्ययः ।
ज्ञानेच्छासुखदुःखादिसामानाधिकरण्यभाक् । यस्त्वहंप्रत्ययस्तत्र नात्मनोऽन्यः प्रकाशते ।। न हि ज्ञानसुखेच्छादियोगः कर्मेन्द्रियादिषु । न च ज्ञानादिशून्येऽर्थे जानामीत्यादिसंविदः ।। ज्ञानमात्रावभासोऽपि वारितः प्रत्यभिज्ञया । ज्ञातवानहमेवादावहमेवाद्य वेद्मि च ॥ नोत्तरस्य न पूर्वस्य न ज्ञानक्षणयोर्द्वयोः । न सन्तानस्य चैतस्मिन् प्रत्ययेऽस्त्यवभासनम् ॥ नोत्तरो ज्ञातवान् पूर्वं पूर्वो जानाति नाधुना । न द्वयोर्द्वयमप्यस्ति सन्तानस्तु न वास्तवः ॥
औपवर्षाः प्रपेदिरे । औपवर्षा मीमांसकाः ।
नोत्तरस्य यदुत्तरकालमिदमनुसन्धानज्ञानं तदुत्तरम् । न द्वयोर्द्वयमप्यस्तीति । पूर्वस्योत्तरज्ञानम्, उत्तरस्य च पूर्वज्ञानम् ।