________________
आह्निकम् ]
प्रमेयप्रकरणम्
त्मिका, रागादयश्च दोषाः शरीरादिजन्महेतवः, एतत्कृतश्च शरीरादियोगाध्यासः प्रेत्यभावः, एतत्कृतमेव च संसारे सुखदुःखरूपं फलम्, तच्च द्विविधमेव । विवेकवतः सर्वं दुःखमेवेति । एवं शरीरादिदुःखान्तं हेयतयैव भावनीयम् एतदनुषक्तश्चात्मापि तथैव एतद्वियुक्तस्त्वात्मैवापवर्ग उच्यते, स चोपादेयतया भावनीय इत्यत एवात्मपदसंगृहीतस्याप्यस्य पुनर्निर्देशः । स हि परमः पुरुषार्थं इति । एवमिदं द्वादशभेदं प्रमेयं हेयोपादेयतया तत्त्वज्ञानेन भावयन्नभ्यासात्तद्विषयविपरीतग्रहात्मकं मिथ्याज्ञानं क्षिणोति ।
तत्त्वज्ञानेन तेनास्य मिथ्याज्ञानेऽपबाधिते । रागद्वेषादयो दोषास्तन्मूलाः क्षयमाप्नुयुः ॥ क्षीणदोषस्य नोदेति प्रवृत्तिः पुण्यपापिका । तदभावान्न तत्कार्यं शरीराद्युपजायते ।। अशरीरश्च नैवात्मा स्पृश्यते दुःखडम्बरैः । अशेषदुःखोपरमस्त्वपवर्गोऽभिधीयते
11
तदित्थमेव द्वादशविधं प्रमेयमतिगहनसंसारमारवस्थलप्रभवतीव्रसन्तापनिर्वापणमहाह्रदतामुपयातीति तदेवादेशार्हमिति सिद्धम् ।
आत्मपरीक्षायां लोकायतिकमतम्
विरक्तसङ्कथास्तावदसञ्जातफलोचिताः
1
आत्मैव त्वस्ति नास्तीति कथं न परिचिन्त्यते ॥ तथा च लौकायतिकाः परलोकापवादिनः । चैतन्यखचितात् कायान्नात्मान्योऽस्तीति मन्वते ॥
२०१
न तावदात्मा प्रत्यक्षतो गृह्यते घटादिवद् बाह्येन्द्रियेण सुखादिवन्मनसा परिच्छेतुमशक्यत्वात् । अनुमानन्तु न प्रमाणमेव चार्वाकाणाम् । न चात्मसिद्ध किञ्चन लिङ्गमस्ति । ज्ञानादियोगस्तु भूतानामेव परिणामविशेषोपपादितशक्त्यतिशयजुषां भविष्यति । यथा गुडपिष्टादयः प्रागसतीमपि मदशक्तिमासादितसुराकारपरिणामाः प्रपद्यन्ते, तथा मृदाद्यवस्थायाम
न्या० म० २६
,
5
10
15
20
25