________________
२००
न्यायमञ्ज
[ सप्तमम् उच्यते। अलं केलिना, एतदेवात्र प्रतिसमाधानं भवति । न हि प्रमाणविषयमात्रमिह प्रमेयमभिमतमेवंविधस्य प्रसिद्धत्वेन लक्षणानहत्वात् । प्रमाण एव ज्ञाते सति तद्विषयोऽर्थः प्रमेयमिति ज्ञायत एव । किं तेन लक्षितेन ? तस्माद् विशिष्टमिह प्रमेयं लक्ष्यते ।
ज्ञातं सम्यगसम्यग् वा यन्मोक्षाय भवाय वा ।
तत् प्रमेयमिहाभीष्टं न प्रमाणार्थमात्रकम् ॥ तच्च द्वादशविधमेव भवति, न न्यूनमधिकं वेति समाहित इत्थं भवति विभागाक्षेपः । कुतः पुनरेष प्रमेयविशेषो लभ्यते ? निःश्रेयसार्थत्वाच्छास्त्रस्य,
प्रमेयज्ञानस्य प्रमाणज्ञानवदन्यज्ञानोपयोगितामन्तरेण स्वत एव मिथ्या10 ज्ञाननिवृत्त्यादिक्रमेणापवर्गे हेतुत्वप्रतिज्ञानात्, तथाविधस्य चापवर्गोपायत्वस्यात्मादिष्वेव भावात् ।
भवत्वेवम्, सूत्रस्य तु कथमीदृशप्रमेयविशेषसमर्पणे सामर्थ्य विशेषात्तुशब्दप्रयोगसामर्थ्याच्च ? सत्यम् आकाशकालदिगादि प्रमाणविषयत्वात् प्रमेयं भवति, तत्तु न सप्रयोजनम् । आत्मशरीरेन्द्रियार्थमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयं निःश्रेयसहेतुत्वादित्याशयः । तदित्थमेष तुशब्दो निःश्रेयसाङ्गभूतप्रमेयान्तरपरिहारद्वारेण विशिष्टमात्मादि प्रमेयमिह सूचयति । प्रमेयपरीक्षाप्रयोजनम्
तद् द्वादशविधत्वेऽपि हेयोपादेयभेदतः । द्विधोच्यते मुमुक्षूणां तथैव ध्यानसिद्धये ॥ तत्र देहादिदुःखान्तं हेयमेव व्यवस्थितम् । उपादेयोऽपवर्गस्तु द्विधावस्थितिरात्मनः । सुखदुःखादिभोक्तृत्वस्वभावो हेय एव सः ।
उपादेयस्तु भोगादिव्यवहारपराङ्मुखः ।। 25 आत्मनो हि भोगाधिष्ठानं शरीरम्, भोगसाधनानीद्रियाणि, भोक्तव्या
इन्द्रियार्थाः, भोगो बुद्धिः, आन्तरं हि भोगकारणं मनः, प्रवृत्तिः पुण्यपापा
15