________________
सप्तममाह्निकम् प्रमेयप्रकरणम्
प्रमेयोद्देश विभागौ
एवं प्रमाणपदार्थे परीक्षिते सति यदर्थं तत्परीक्षणं तत् प्रमेयमिदानीं
दर्शयितुमाह,
आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम् ॥
प्रमाणवदिहाप्येतत् सूत्रं व्याख्यायि सूरिभिः । विभागसामान्यलक्षणप्रतिपादकम् ॥
एवं
प्रमेयश्रुतिरात्मादिपदपर्यन्तवर्तिनी
1
तेषामेव प्रमेयत्वं नान्यस्येति नियच्छति ॥
5
यथा देवदत्तयज्ञदत्तविष्णुमित्रा भोज्यन्तामित्येवकारादिश्रुतिमन्तरेणापि 10 शब्दसामर्थ्यात् त एव भोजनक्रियायोगिनोऽवगम्यन्ते, नान्ये, तथेहाप्यात्मादयः प्रमेयमित्युक्ते तथैव तदितरप्रमेयनिषेधोऽवधार्यते ।
प्रमेयस्य द्वादशविधत्वविचारः
ननु कथं द्वादशविधमेव प्रमेयमुपपद्यते, यावता समानतन्त्रे पृथिव्यादीनि नव द्रव्याणि रूपादयश्चतुर्विंशतिर्गुणाः, उत्क्षेपणादीनि पञ्च कर्माणि, परापरभेदेन द्विविधं सामान्यम्, नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः, एकः समवाय इति षट्पदार्थीमनुक्रम्य तदवान्तरविशेषैरानन्त्यं प्रमेयस्योपवर्णितमिति ?
20
उच्यते । किं पुनरिह प्रमेयं विवक्षितमिति । तत्सामान्यलक्षणं तावत् परीक्ष्यताम् । आह । सूक्तमिदं कस्यापि 'कर्णे स्पृष्टः कटिं चालयति' इति । द्वादशविधत्वमाक्षिप्तं न प्रतिसमाधत्ते भवान्, प्रमेयस्य सामान्यलक्षणन्तु परीक्षत
एव I
15