________________
आह्निकम् ] प्रमेयप्रकरणम्
२०३ अवस्तुत्वाच्च नासौ पूर्वं किञ्चिद् ज्ञातवान्न चाद्य किञ्चिज्जानातीति । तस्मादहमेव ह्यो ज्ञातवानहमेवाद्य जानामीत्यस्मिन् प्रत्यये ह्यश्चाद्य चानुवर्तमानो ज्ञाता प्रतीयत इति गम्यते । न चासौ कार्यः, बाल्याद्यवस्थाभेदेन नानात्वादचेतनत्वाच्च । एवं सप्रत्यभिज्ञाहंप्रत्ययग्राह्ये ज्ञातरि सिद्धे सोऽयं स्थूलादिसमानाधिकरणोऽहंप्रत्ययस्तदभेदोपचारेण शरीरे वर्तमानो मिथ्येति 5 कल्पयिष्यते । न पुनरेतदनुरोधेन ज्ञानादिसमानाधिकरणाप्रत्ययस्य मिथ्यात्वकल्पनं युक्तमबाधितत्वात् । न खल्वहं जानामीति प्रत्ययः केनचिदल्पीयसा दोषरेणुना धूसरोकतु पार्यते । तदस्यात्मैव मुख्यो विषयस्तदतिरिक्तं वस्तु भाक्तमिति । तस्मादप्रत्ययगम्यत्वादात्मा प्रत्यक्ष इति । आत्मनो ज्ञानानतिरिक्तत्वम्
10 अत्र वदन्ति । शब्दमात्रोच्चारणमेतदहं जानाम्यहमिच्छाम्यहं सुख्यहं दुःखोति, न तु ज्ञानादिस्वरूपातिरिक्तस्तदाश्रयः कश्चिदेतासु बुद्धिषु परिस्फुरतीति, कथमेकस्यामेव संविदि कर्ता च कर्म चात्मा भवेत् ?
ग्राह्यग्राहकतैकस्य ज्ञानस्यापाकरिष्यते ।
त्वयापि नेष्यते चेति तथा सत्यात्मनोऽपि सा ॥ 15 यच्चावस्थाकृतं भेदमवलम्ब्य ग्राह्यग्राहकभावसमर्थनमेकस्यैवात्मनः कृतं किल, द्रव्यादिस्वरूपमात्मनो ग्राह्य ज्ञातृरूपञ्च ग्राहकमिति, तदनुपपन्नम्, द्रव्यादिस्वरूपे ग्राह्ये न ज्ञातरि ग्राहकता साधिता स्यात्, आत्मवर्तिनोऽपि द्रव्यादिरूपस्य घटादितुल्यत्वात् ।
यद्यपि निपुणमन्यैरुच्यते भवतु ज्ञातृतैव ग्राहिका तथापि विषयो- 20 पाधिकृतोऽस्त्येव भेदः, घटावछिन्ना हि ज्ञातृता ग्राह्या शुद्धैव तु
तदभेदोपचारेणेति । आत्मोपकारकत्वाच्छरीरमात्मवाचिना पदेन निर्दिश्यत इति।
द्रव्यादिस्वरूपे ग्राह्ये नेति । ततश्च घटादिवत् ‘इदम्' निर्देश्यः स्याद् ग्राह्यांशः पृथगेव, पुनरप्यात्मनो ज्ञातुर्न ग्राह्यत्वम् ।
विषयोपाधिकृत इति । विषयलक्षणो य उपाधिस्तत्कृतः ।