________________
१९० - न्यायमञ्जऱ्यां
[षष्ठम् स्वरूपावधारणे कारणं भविष्यति, तदेवंलक्षणकमर्थप्रत्यायकञ्च शब्दस्वरूपं तत्साधुतयावधृतमिति व्याप्तिग्रहणोपपत्तेः, शास्त्रमपि श्रुतिस्मृतिरूपसाधुशब्दप्रयोगोपनतक्रतूपकारकरणकस्वर्गादिफलसंयोगमुपदिशदपशब्दभाषणप्रभव - प्रत्यवायप्रतिपादकञ्च “वाग्योगविद् दुष्यति चापशब्दैः' इत्यादि साधुत्वेतर5 परिच्छेदे प्रमाणत्वं प्रतिपद्यत एव ।
आह । कलजवत् तत्स्वरूपसिद्धौ सत्यां तद्विधिनिषेधयोः शास्त्रं क्रमते न तु तत्स्वरूपमेव विधत्ते, स्वरूपस्य भावार्थत्वेन विधिविषयार्थत्वायोगादित्युक्तम् । सत्यमुक्तम्। किन्तु श्रुतिस्मृतिशास्त्रयोर्धर्माधर्मोपदेशिनोर्यथोपवर्णितेनैव
प्रकारेण साध्वसाधुविषयविधिनिषेधपरत्वम्, तत्स्वरूपप्रतिपत्तिकर्तव्यतापरन्तु 10 विध्यपेक्षितं प्रमाणीभवत्येव । यदि वा पाणिन्यादिष्टस्मृतिद्रढिम्ना मूलभूतमा
चमनविधिवद् वैदिकमपि तथाविधविधिवाक्यं कल्पयितुं शक्यमिति शास्त्रस्यापि न विषयः साधुत्वम्, शब्दवित्प्रयोगश्च सङ्कररहित एव, तथा हि अन्या एव जातितः' इति; व्यज्यत इति प्रकृतम् । शास्त्रमपि श्रुतिस्मृतिरूपं 'साधुभिर्भाषितव्यम्' इत्यादिकं प्रत्यवायप्रतिपादकं चेति।
यस्तु प्रयुङ क्ते कुशलो विशेषे शब्दान् यथावद् व्यवहारकाले । सोऽनन्तमाप्नोति जयं परत्र
वाग्योगविद् दुष्यति चापशब्दैः ॥ इति । विशेषे कुशलो यथा स एव शब्दः क्वचित् प्रयुक्तः साधुरन्यत्रासाधुः 'अस्व'शब्दो 20 हि निर्धने साधुः, तुरगे त्वसाधुरिति । दुष्यति चापशब्दैर्दुष्टो भवतीति । कः ? अवाग्योगविदित्यर्थसम्बन्धः ।
व्रीहिकलजवदिति । 'व्रीहिभिर्यजेत', 'न कलज भक्षयेत्' इति । कलजाख्यः शाकभेदः । यथोपर्शितेन प्रकारेण । साधुभिर्भाषणं कार्य न तु असाधुभिः साधव एवंभूता इत्येवमिति विध्यपेक्षितमिति । येन येन विना विधेरसिद्धिस्तत्तत्स्वरूपसिद्धये असावाक्षिपति, साधुत्वांशावगमञ्च विना अस्य न सिद्धिरिति यतः साधुत्वावगमस्तदपि व्याकरणमाक्षिपत्येव । मूलशास्त्रमपीति यदा ह्येतेन साधुस्वरूपं निर्णीतं तदा तदनिर्णयद्वारकं मूलशास्त्रस्य यदप्रामाण्यं तन्निवर्तत एव ।
25