________________
आह्निकम् ]
श्रौत्रे हि प्रत्यये ग्रस्तनिरस्तरोमशाम्बूकृतादिदोषरहितोदात्तादिधर्मसम्बन्धप्रसिद्धानुपूर्वीकवर्णगुणात्मकपदप्रतिभासस्तावदस्ति । स च न सन्दिग्धो न बाधकविधूतधैर्यो नाशुद्धकरणजन्मा न कल्पनामात्रस्वरूप इति तत्र परिस्फुटक्रमवर्णात्मकपदग्रहणमेव साधुत्वग्रहः, तद्विपरीतयथानिर्दिष्टदोषकलुषितशब्दग्रहणमेव चासाधुत्वग्रहणमिति प्रत्यक्षगम्ये एव साधुत्वासाधुत्वे इति ।
प्रमाण प्रकरणम्
१८९
ननु यदि श्रोत्रकरणकेनैव प्रत्ययेन साधुत्वासाधुत्वे प्रतिपत्तारः प्रतिपद्यन्ते व्याकरणाध्ययनबन्ध्यबुद्धयोऽपि प्रतिपद्येरन्, न च प्रतिपद्यन्ते । तस्मान्न ते ते इन्द्रियविषये इति ।
5
नैष दोषः । वैयाकरणोपदेशसाहायकोपकृतश्रोत्रेन्द्रियग्राह्यत्वाभ्युपगमाद् यथा ब्राह्मणत्वादिजातिरुपदेश सव्यपेक्षचक्षुरिन्द्रियग्राह्यापि न प्रत्यक्षगम्यतामपोज्झति । यथाह । न यद् गिरिशृङ्गमारुह्य गृह्यते तदप्रत्यक्षमिति, यथा वा सविकल्पकप्रत्यक्षप्रामाण्यसिद्धौ शब्दानुविद्धबोधेऽपि प्रामाण्यमुपपादितमादौ किल संज्ञोपदेशिना पनसोऽयमिति वृद्धवचसा चक्षुरिन्द्रियेण पनसज्ञानमुत्पद्यते सङ्केतकरणकाले तदुभयजमित्यव्यपदेशपदेन व्यपनीतं व्यवहारकाले पनसादिज्ञानमुपदेशस्मरणापेक्षचक्षुर्जनितमपि चाक्षुषमेवेतिर्वाणतम्, एवमिहापि 15 व्याकरणकोविदोपदेशसचिव श्रवणेन्द्रियग्राह्ये अपि साधुत्वासाधुत्वे न प्रत्यक्षतामतिवर्तेते, यथा च ब्राह्मणत्वादिजातिप्रतीतौ कारणान्तरमुक्तम् "क्वचिदाचाऱतश्चापि सम्यग् राजानुपालितात्" इति मन्वादिदर्शितानवद्यवर्त्मानुसरणनिपुणनरपतिपरिपाल्य मानवर्णाश्रमाणां शतकृतककपटार्यवेशदृष्टशूद्रव्यभिचारे देशे विशिष्टाचारगम्यापि ब्राह्मणत्वादिजातिर्भवति । एवमिहापि 20 विशिष्टशब्दश्रवणोत्तरकालप्रवृत्तव्यवहारावगतार्थप्रतिपत्तिसहितं शब्दानुशासनशास्त्रोपदिष्टप्रकृतिप्रत्ययविकरणवर्णलोपागमादेशादिलिङ्गमव्यभिचारि तत्
ग्रस्तनिरस्तेति । ग्रस्तो जिह्वामूलेन गृहोतोऽव्यक्तो वा निरस्तो निष्ठुरः, रोमशो गम्भीरः, अम्बूकृतो यो व्यक्तोऽप्यन्तर्मुख इव श्रूयते । आदिग्रहणं कलादि - परिग्रहार्थम् ।
क्वचिदाचारतश्चापीत्यस्य । पूर्वमर्धम् – 'संस्थानेन घटत्वादिब्राह्मणत्वादि
10
25