________________
आह्निकम् ]
प्रमाणप्रकरणम् निरवद्यवर्णक्रमोदीरणोदारगम्भीरगतयः सूक्तयः सूरिजनस्यान्या एव दुःश्रवाः कुत्सितसङ्कीर्णवर्णविभागविनिहितहृदयोद्वेगा ग्राम्यगिर इति प्रत्यक्षमुपलभ्यते । स चायमसङ्करः प्रयोगो व्याकरणसाहायकं प्रतिपद्यमानः साधुत्वावगमोपायतां भजत एवेति सर्वथा नाप्रमाणकः साध्वसाधुशब्दविभाग इति ।
एवञ्च "ब्राह्मणेन न म्लेच्छितवै नापभाषितवै, म्लेच्छो ह वा एष । यदपशब्दः' इत्याद्यागमवचनान्यपि तदुपयोगीनि व्याख्यातवाक्येन भवन्ति ।
___ यत् पुननियमशास्त्रे साधुभिर्भाषितव्यमसाधुभिर्नेत्यस्मिन्नपभाषितं तदपि न पेशलम् । न हि नीरपानोपदेशकृशानुपाननिषेध इवानवकाशमिदं शास्त्रम्, अपशब्दानामेव नार्यजनवदनप्रतिष्ठानां यथातथार्थप्रतीत्युपायत्वदर्शनपूर्वकप्रयोगप्रसङ्गानपायेन प्राप्तौ सत्यां प्रतिषेधस्यावकाशसम्भवात्साधुभिरेव भाषणस्य 10 भोजनप्राङ्मुखतादिवन्नियमादृष्टसाफल्यात् ।
यदपि साध्वसाधुस्वरूपानवधारणात् प्रतिपदोपदेशाद्यशक्यत्वमाशङ्कितं तदपि प्रतिहतम् । यादृगिदं प्रत्यक्षानुमानगम्यं साध्वसाधुशब्दस्वरूपं व्याख्यातं तदवलम्बनपुरःसरनियमकरणस्य सुशक्यत्वात् । अत एव साधुत्वं नाम किमुच्यत इति यद्विकल्पितं तद्विहितमेव प्रति भवति । यतो व्याकरणलक्षणानुगम- 15 विशेषित्वं वाचकत्वं साधुत्वमित्युक्तम्, तच्च स्ववर्गानुगामिगोत्वादिवत्सामान्य वा भवतु पाचकत्वादिवदसत्यपि सामान्येऽवच्छेदकत्वं भवतु, सर्वथा तत्कृतो निर्वहति सर्वो व्यवहारः, वर्गीकरणे हि तदेव कारणमिति ।
' अथवा पुनरस्तु वाचकत्वमेव साधुत्वं तथापि तत्र नियमशास्त्रं साधुभिरेव भाषितव्यमिति प्रवर्तितुमर्हत्येव । यद्यप्यसाधोरवाचकत्वात्प्रयोगप्रसङ्गो 20 नास्ति तथापिसाधुस्मरणसरणिसमुपारूढवाचकत्वशङ्कोपप्लवमानप्रसङ्गनिवृत्तये नियमसाफल्यं भविष्यति, विधिफलत्वेन नियमस्य फलतः परिसंख्याकार्यम्
पाचकत्वादिवदिति । 'पाचकः पाचकः' इति व्यपदेशस्य पचिक्रियानिबन्धनत्वाद् न पाचकत्वसामान्यम्, अपाचकव्यवच्छेदकं तु भवत्येव ।
फलतः परिसङ्ख्याकार्यमिति । यथा 'इमामगृभ्णन् रशनामृतस्य' 25 इत्यश्वाभिधानीमादत्त इत्यप्राप्तमेवाश्वरशनादानं मन्त्रेण विधीयमानं फलतो गर्दभरशनानिवृत्तिं करोतीति ।