________________
आह्निकम् ]
प्रमाण प्रकरणम्
स्वमते साधुशब्दानामेव वाचकत्वसाधनम्
अत्राभिधीयते । यत्तावदिदमवादि
गवादिशब्दवदनादिप्रबन्धसिद्धमेव गाव्यादेरपि वाचकत्वमिति, तत्रामुं पक्षं संशयदशामेव तावदारोपयामः । पूर्वपक्षिकोक्तयुक्तिसमुत्थापितस्थिरतरविपर्ययज्ञानसमनन्तरं सहसैव सम्यग्ज्ञानो - त्पादनातिभराद् भारैकदेशावतरणन्यायेन संशयस्तावदुपपद्यते । ततस्तर्कात् परिशोधितेऽध्वनि सुगमे सुखं विहरिष्यति सम्यनिर्णयोपायो न्याय इति । तदुच्यते । यदि गाव्यादीनां गवादीनामिव शब्दानां प्रयोगे गतिरन्या न काचित् सम्भावनाभूमिमुपैति तत्सत्यम्, आदिसत्तायाः कल्पने कोऽवसरः ? यथा हि स्वाध्यायाध्ययनसमये यादृशमेव शब्द यथोचितमात्रानुस्वारस्वरादिरूपसमुत्थितमुच्चारयत्याचार्यस्तादृशमेव शिष्यः प्रत्युच्चारयति प्रमाद्यन्तं वा गुरुरेवैनमनुशास्ति, आतदुच्चारणसामर्थ्योपजनं तावन्न मुञ्चति शिक्षयति । सोऽपि शिष्यो यदा गुरुर्भविष्यति तदा स्वशिष्यं तथैव शिक्षयिष्यति । आचार्यो यदा शैशवे शिष्य आसीत् तदान्येन गुरुणा शिक्षितोऽभूत् सोऽपि तदन्येन सोऽपि तदन्येनेत्येवमनादित्वं जैमिनीयपक्षे, आदिसर्गात् प्रभृति प्रवृत्तत्वं नैयायिकपक्षे वेदाध्ययनस्य व्यवस्थितम् ।
१८५
,
10
15
इत्थमेव यदि गाव्यादीनां गवादिवत् प्रमादतः सुपरिरक्षितः प्रयोगस्तथैव तेभ्योऽर्थप्रतिपत्तिपूर्वको व्यवहारस्तदानादिगवादिशब्दसमानविषया एव गाव्यादय इति, तदा कस्य किं ब्रूमः ? अस्ति त्वत्रान्यः प्रकारः । न ह्येकान्तेन यादृगेव वक्त्रा शब्दः प्रयुज्यते तादृगेव श्रोत्रा प्रत्युच्चार्यंते; किन्तु प्रमादालस्यादिविविधापराधविगुणकरणोच्चार्यमाणोऽपभ्रंशतां स्पृशन् दृश्यत 20 इत्यस्ति संशयावसरः । अपभ्रंशतयापि ये स्थिताः स्थास्यन्त्यपि वा शाकटिकभाषाशब्दास्तानपि गोपालबालाबलासु प्रयुञ्जाना जरत्पामराः प्रयत्नेनापि न यथोच्चारितानेव तान् पठितुं शक्नुवन्तीति अशक्तिजशब्द बाहुल्यदर्शनात् संशयाना कुशाग्रेय बुद्धेरपि बुद्धिर्भवितुमर्हति किमेते गवादिशब्दा एवानादिसिद्धवाचकाः शक्तिभाजः, तेभ्योऽन्ये विगुणकरण प्रयोज्याः प्रमादप्रभवा अपभ्रंशाः ? किं वा सर्वं एव तुल्यकक्षा इति । सर्वेषां तुल्यकक्षत्वे य एते अद्यत्वेऽपि प्रमादजाः प्रमदादारकादिवचनेष्वप भ्रष्टा अभ्यधिकतरामपभ्रंश
न्या० म० २४
25