________________
5
१८६ न्यायमञ्ज
[ षष्ठम् दशां स्पृशन्तस्तेऽपि तामेव गवादिशब्दमधुरमधिरोहेयुः, न चैवमस्त्विति शक्यमभ्यनुज्ञातुमिदानीमेव भ्रश्यतां तेषां प्रत्यक्षत उपलब्धेरिति । तस्मादवश्यं तावदद्यत्वे परिदृश्यमानापभ्रंशदशा दुर्बलबालाबलादिशब्दानां न गवादिशब्दान् स्पर्धितुमर्हति । ते चेन्न स्पर्धन्ते तदधुना गाव्यादयोऽपि प्रकारान्तरोपपत्तिसम्भावनाङकुरप्रभवाः सन्तो न गवादिशब्दसमानविधित्वमध्यवसातुं शक्नुयुरिति तर्कयामः । तदुक्तं भगवता जैमिनिना, “शब्दे प्रयत्ननिष्पत्तेरपराधस्य भागित्वम्' इति । भाष्यकारेणापि व्याख्यातम् "महता प्रयत्नेन शब्दमुच्चरन्ति । वायु भेरुत्थितः, उरसि विस्तीर्णः, कण्ठे विवर्तितो
मूर्धानमाहत्य परावृत्तो वक्त्रे चरन् विविधान् शब्दानभिव्यनक्ति तत्रापराध्ये10 ताप्युच्चारयिता । यथा शुष्के पतिष्यामीति कर्दमे पतति सकृदुपस्प्रक्ष्यामीति
द्विरुपस्पृशति'' इत्यादिना। असाधुशब्दा नैव साधुशब्दतुल्ययोगक्षेमाः ।। ___ आह । तहि विशेषे प्रमाणं वक्तव्यं यदेते गाव्यादयः प्रमादाद्यपराधनिबन्धना एव न गवादिशब्दसमानविधय इत्युच्यते । भवतु नः समीहितम् । संशयदशां तावदानीतोऽयमनादिगाव्यादिशब्दवाची महापुरुषः सम्बोध्यते, भो महात्मन् ! इत्थं पूर्वोक्तनीत्या संशये सति चिन्त्यतां किमेते गाव्यादयो गवादिसमानयोगक्षेमा एव हस्तः करः पाणिरितिवद्भवन्तु किं वापराधसम्भावनया मार्गान्तरमालम्बन्तामिति। तत्रैकस्मिन् वाच्ये बहवस्तुल्यकक्ष्या वाचका इति ।
नैष न्यायः । कथं प्रत्यर्थं शब्दनिवेशात्तेनैव सम्बन्धकरणसौकर्यादन्यसम्बन्धे 20 यत्नगौरवप्रसङ्गात् प्रत्यर्थं शब्दनिवेशे हि सति परस्परमव्यभिचारिणौ
शब्दार्थों भवतः । स शब्दस्तस्य वाचकः सोऽर्थस्तस्य वाच्य इति, अनेकशब्दवाच्यस्त्वेकोऽर्थस्तं वाचकं शब्दं न जह्यादपि तमन्तरेण शब्दाभिधेय
समानविधित्वं तुल्यत्वम् । शब्दे प्रयत्ननिष्पत्तेरिति । न हि यादृगेव परेण शब्द उच्चार्यते तादृगेव प्रत्युच्चारयितुं शक्यते; यस्मात् प्रयत्नान्निष्पाद्यते अभिव्यक्ति 25 याति शब्दः, अतः शब्देऽपि अपराधस्य भागित्वम् । पुरुषापराधस्य भाजनं शब्दः
सम्भाव्यते, अतः पुरुषापराधवशादन्यथाप्युच्चार्यते ।