________________
आह्निकम् ]
प्रमाण प्रकरणम्
१७१
व्याकरणसाध्यतां स्पृशति । मोक्षे तु द्वारमात्मादिपरिज्ञानमाचक्षते क्लेशप्रहाणञ्च अध्यात्मविदः, षत्वणत्वपरिज्ञानं पुनरपवर्गंसाधनमिति न साधीयान् वादः । तदेवं धर्मादिचतुर्वर्गादेकोऽपि न व्याकरणसाध्य इति स्थितम् ।
अथोच्यते, सकलपुरुषार्थसार्थसाधनोपदेशविधेर्वेदस्य व्याकरणमवलग्नकमङ्गम्, अतस्तत्प्रयोजनेनैव प्रयोजनवदिति न पृथक् प्रयोजनान्तरमाकाङ्क्षतीति, तदपि परिहृतम् । या हि साधुशब्दोपदेशदिशा तस्य तदङ्गता, सा व्युदस्तैव । न चाङ्गस्यापि सतस्तत्तत्सेवाद्वारमपरमस्तीति निष्प्रयोजनमेव चेदृशम् । न चानुपकारकमङ्गमपि भवितुमर्हति न हि तत् प्रधानेनाङ्गीक्रियते । नियोगगर्भो हि विनियोग इति न्यायविदः ।
15
यान्यपि रक्षादीनि प्रयोजनानि व्याकरणस्य व्याख्यातृभिरभिहितानि तेषामन्यतोऽपि सिद्धेर्न व्याकरणशरणता युक्ता । रक्षा तावदध्येतृपरम्परात एव सिद्धा । मनागपि स्वरतो वर्णतो वा प्रमाद्यन्तं किञ्चिदधीयान मन्ये अध्येतारो मा विनीनशन् । श्रुतिमित्थमुच्चारयेदित्याचक्षाणाः शिक्षयन्तीति रक्षितो भवति वेदः । ऊहस्तु त्रिविधो मन्त्रसामसंस्कारविषयस्तत्र सामविषयो यौक्तिकशास्त्रादवगम्यते याज्ञिकप्रयोगवादाद् वा । मन्त्रविषयोऽप्येवम् । प्रोक्षणादिसंस्कारविषये तु तस्मिन् व्याकरणमपि किं कुर्यात् ? आगमस्त्वनन्तरमेव परीक्षितः । आगमगम्यञ्च प्रयोजनं भवति, न चागमः प्रयोजनम् । लाघवन्तु किमुच्यते ? बाल्यात् प्रभृति बहुषु वहत्स्वपि वत्सरेषु यन्नाधिगन्तुं शक्यते व्याकरणं स चेत् लघुरुपायः कोऽन्यस्ततो गुरुर्भविष्यति ? सन्देहोऽपि न कश्चिद् वेदार्थे व्याकरणेन पराणुद्यते । प्रतिवाक्यमुपप्लवमाननानाविधसन्देहसहस्रविस्रंसनफला मीमांसा दृश्यते, न व्याकरणम् । तेन रक्षोहागमलघ्वसन्देहाः प्रयोजनमिति यदुच्यते तन्न सुव्याहृतम् ।
यान्यपि प्रयोजनान्तराणि भूयांसि 'तेऽसुरा हेलयो हेलयः' इत्युदाहरणदर्शितानि तान्यपि तुच्छत्वादानुषङ्गिकत्वाच्चोपेक्षणीयानि ।
दिशा
तदुक्तम्,
5
अर्थवत्त्वं न चेज्जातं मुख्यैरपि प्रयोजनैः । तस्यानुषङ्गिकेष्वाशा कुशकाशावलम्बिनी ॥ इति ।
10
20
25