________________
१७० न्यायमञ्जर्सा
[ षष्ठम् ब्राह्मणेन न म्लेच्छितवै । म्लेच्छो ह वा एष यदपशब्दः' इति, “एकः शब्दः सम्यक् प्रयुक्तः स्वर्गे लोके कामधुग् भवति'' इति, "आहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्तीयां सारस्वतीमिष्टिं निर्वपेत्' इति, "तस्मादशेषा व्याकृता वागुच्यते'' इत्यादिवचनान्तरमूलतापि व्याकरणस्मृतेः प्रत्युक्ता । शिष्टप्रयोगमूला तर्हि व्याकरणस्मृतिरस्तु वैद्यकस्मृतिरिवान्वयव्यतिरेकमलेति चेत्, के शिष्टा इति पृष्टो वक्तुमर्हसि ? किमभिमतगवादिसाधुशब्दव्यवहारिणो गाव्याद्यपशब्दवादिनो द्वयं वा ? आये पक्षे दुरुत्तरमितरेतराश्रयत्वम्, शिष्टप्रयोगमूलं व्याकरणं व्याकरणविदश्च शिष्टा इति । न
ह्यशिक्षितव्याकरणास्तत्संस्कृतगवादिशब्दप्रयोगकुशला भवन्ति । मध्यमपक्षे 10 गाव्यादिव्यवहारिणः शकाटिकाः शिष्टाः, तत्प्रयोगमूलं गवादिशब्दसंस्कार
कारि व्याकरणमिति व्याहतमिव लक्ष्यते । तृतीये तु पक्षे गोगाव्यादिशब्दप्रयोगसाङ्कर्यात् किंफलं व्याकरणं भवेत् ? वैद्यकस्मृतेस्तु युक्तमन्वयव्यतिरेकमूलत्वं तथा दर्शनादिति । तदनयापि दिशा न प्रयोजनवत्तामुपयाति व्याकरणम् । अतश्च निष्प्रयोजनं व्याकरणम्, तत्सूत्रकृता स्वयं प्रयोजनस्यानुक्तत्वात् । न ह्यथातो धर्मजिज्ञासा, प्रमाणादिज्ञानात् साधादिज्ञानाद् वा निःश्रेयसाधिगम इतिवत् तत्र सूत्रकारः प्रयोजनं प्रत्यपीपदत् । सुज्ञानत्वान्न प्रत्यपादयदिति चेत्, किमुच्यते सुज्ञानत्वम् यदद्यापि निपुणमन्वेषमाणा अपि न विद्मः, यत्र चाद्यापि सर्वे विवदन्ते।
किञ्च धर्मार्थकाममोक्षाश्चत्वारः पुरुषार्थास्तेषामन्यतमः किल 20 व्याकरणस्य प्रयोजनमाशङ्कयत । तत्र न तावद्धर्मस्तस्य प्रयोजनम् । स हि
यागदानहोमादिस्वभावस्तज्जनितसंस्कारापूर्वरूपो वा वेदादेवावगम्यते । चोदनैव धर्मेप्रमाणमिति तद्विदः। चोदनामूलमन्वादिस्मृतिसदाचरणेतिहासगम्यो वा कामं भवतु, व्याकरणस्य तु स्वतस्तदुपदेशसामर्थ्यासम्भवादङ्गस्वभावा
ख्यातत्वाच्च न तत्प्रयोजनता युक्ता । प्रयोगनियमद्वारकस्तु धर्मस्तस्य 25 प्रयोजनतया निरस्त एव । अर्थप्रयोजनता वार्तादण्डनीत्योः प्रसिद्धा, न
व्याकरणस्य । अधीतव्याकरणा अपि दरिद्राः प्रायशो दृश्यन्ते । न तस्यार्थ: प्रयोजनम् । कामस्तु वात्स्यायनप्रणीतकामशास्त्रप्रयोजनतामुपगतो न
15