________________
१७२
न्यायमञ्जऱ्यां
[षष्ठम्
न वा व्याकरणस्य शब्दादिसंस्कारकत्वम्
अथ कथ्यते, किं प्रयोजनान्तरपर्येषणया, शब्दसंस्कार एव व्याकरणस्य प्रयोजनमिति; तदपि व्याख्येयम् । कः शब्दस्य संस्कारः ? तेन वा कोऽर्थ इति ।
न हि व्रीहीणामिव प्रोक्षणम्, आज्यस्येवावेक्षणम्, अग्नीनामिवाधानं शब्दस्य 5 कश्चन व्याकरणकारितः संस्कारः सम्भवति । नैयायिकादिपक्षे च क्षणिका वर्णास्तेषामुच्चारितनष्टानां कः संस्कारः ? शरादेरिव न वेगः, नात्मन इव भावना, न शाखादेरिव स्थितिस्थापक इति । वर्णानां नित्यत्वपक्षेऽपि क्षणिकाभिव्यक्तित्वमपरिहार्यम् । अतस्तेष्वपि कः संस्कारः ? संस्कारश्च वर्णस्य
वा पदस्य वाक्यस्य वेति विकल्प्यमानो न कस्यचिद् व्यवस्थापयितुं 10 शक्यः । वैयाकरणानान्तु निरवयववाक्यविदां पदवर्णयोः संस्कारः
सुतरामनालम्बनः । 'अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत्' । अन्यान्येव पदानि संस्करिष्यन्त इति चेत्, न, असतां संस्कारस्यानुपपत्तेः । आह च,
वाक्येभ्य एव परिकल्पनया विभज्य संस्कर्तुमिच्छति पदानि महामतियः । उच्चित्य सौरभविभूषितदिक्षु कस्मा
दाकाशरूढकुसुमानि न संस्करोति ॥ इति । न च शब्दसंस्कारकर्तव्यतोपदेशे कश्चिदनारभ्याधीतो वा प्रकरणपठितो वा विधिरुपलभ्यते, यमनुरुध्यमानाः शब्दस्योपयुक्तस्य 'चात्वाले कृष्णविषाणां प्रास्यति' इतिवदुपयोक्ष्यमाणस्य वा 'व्रीहीन् प्रोक्षति' इतिवत् कञ्चन संस्कारमनुतिष्ठेम । 'स्वाध्यायोऽध्येतव्यः' इति विधिरामुखीकरणेन माणवकस्य वा ग्रन्थस्य वा विधिः संस्कारमुपदिशतीति महती चर्चेषा तिष्ठतु । सर्वथा नायं व्याकरणनिर्वर्त्यः । प्रत्ययागमवर्णलोपादेशादिद्वारकशब्दसंस्कारोपदेशशङ्कामपि च नयतीत्यास्तामेतत् । न च शब्दप्रयोगोपायस्थानकरणादे
कोष्ठ्यस्य मातरिश्वनो वा श्रोत्रेन्द्रियस्य वा तदुपलब्धिकरणस्य प्रयोक्तु25 रात्मनो वा मनसो वा बुद्धेर्वा कश्चिद् व्याकरणेन संस्कारक्लेशः शक्यक्रिय
इति.तत्कारकेऽपि संस्कारेऽनुपाय एव व्याकरणम् । न च स्थूलपृषतीत्यादिकतिपयशब्दव्युत्पादनमेव व्याकरणप्रयोजनतया वक्तव्यम्, तस्यापि कल्पसूत्राधुपायान्तरलभ्यत्वात् ।