________________
आलिकम् ] प्रमाणप्रकरणम्
१६५ वैदिकस्तु सम्प्रति चिन्त्यो वर्तते । स हि सिद्धे साधुत्वे तद्विधौ, सिद्धे चासाधुत्वे तन्निषेधे व्याप्रियते, न पुनस्तत एव तत्सिद्धेर्युज्यते । तथाभ्युपगमे वा दुरुत्तरमितरेतराश्रयमवतरति, विधिनिषेधसिद्धौ साध्वसाधुशब्दसिद्धिः, साध्वसाधुशब्दसिद्धौ च विधिनिषेधसिद्धिरिति ।
किञ्चेदं साधुत्वं नाम ? यदि वाचकत्वम्, गाव्यादयोऽपि सुतरां वाचका 5 इति तेऽपि कथं न साधवः ? अर्थावगतिसाधनाद्धि साधुत्वम् । तच्च यथा गाव्यादिषु झटित्येव भवति, न तथा गवादिष्विति प्रथमं त एवासाधवः । एवञ्च यदाहुः, 'असाधुरनुमानेन वाचकः कैश्चिदिष्यते' इति । तदत्यन्तमसाम्प्रतम् । सोपानान्तरप्रतीतिप्रसक्तविपर्ययस्य च लोके प्रसिद्धत्वात् । यस्तावदनधिगतव्याकरणसरणिः पामरादिः स गाव्यादिशब्दश्रवणे 10 सति तावत्येव जातसन्तोषस्तत एवार्थमवगच्छन् गवादिशब्दानुमामनधिरुयैव व्यवहरति । हेमगिरिमुत्तरेण यादंशि मादृशैरनुभूतानि तरुकुसुमफलानि तथाविधास्तस्य साधुशब्दा इति, सर्वात्मना अनवधारितसम्बन्धः स कथमनुमातुं प्रभवेत् ?
येऽपि व्याकरणार्णवकर्णधाराश्विराभ्यस्तसूक्तयः सूरयस्तेऽपि गाव्या- 15 दिभिर्व्यवहरन्तोऽनुमानक्रममनुहरन्त एव तेभ्योऽर्थं प्रतिपद्यन्त इति प्रत्यात्मवेदनीयमेतत् । तस्माद् वाचकत्वमेव साधुत्वम् । तच्च गवादिष्विव गाव्यादिषु दृश्यत इति तेऽपि साधवः स्युः । असाधुत्वमप्यवाचकत्वमुच्यते तच्च, वायसवाशितादिषु व्यवस्थितम्, न वर्णात्मकेषु व्यक्तवागुच्चार्यमाणेषु शब्देष्विति न तेऽसाधवः ।
20 ___अथ ब्रूयान्नार्थप्रतीतिसाधनत्वमात्रं साधुत्वं धूमादिभिरतिव्याप्तेरपि तु विशिष्टक्रियाकारणत्वं वाचकत्वम्, तच्च गवादिष्वेवास्ति, न गाव्यादिष्विति न
असाधुरनुमानेनेत्यस्य पक्षान्तरप्रतिपादकमुत्तरमर्धम् - "वाचकत्वाविशेषेऽपि नियमः पुण्यपापयोः" इति । अनुमानेनासाध्वनुमितात् साधोरर्थप्रत्यय इति ।
विशिष्टक्रियाकरणत्वमिति । अभिधानलक्षणां विशिष्टां क्रियां जनयन् 25 शब्दो वाचकः, न प्रतीतिमात्रजनकत्वेन । तां च तादृशी क्रियां साधुरेव जनयति, नासाधुरिति ।