________________
न्यायमञ्जऱ्यां
[ षष्ठम् ते साधव इति । एतदप्यसमीक्षिताभिधानम् । अभिधानक्रियाकारणत्वं हि वाचकत्वमिति पूर्वमेव सुनिपुणमुपपादितम् । एतच्च गवादिषु गाव्यादिषु समानमिति सर्व एव साधवः ।।
अथ लक्षणानुगतत्वं तद्बाह्यत्वञ्च साधुत्वमसाधुत्वञ्च वर्ण्यते । 5 तदयुक्तम्, पारिभाषिकत्वप्रसङ्गात् । न चान्यत् किमपि साध्वसाधुलक्षण
मतिसूक्ष्मयापि दृष्टया शक्यमुत्प्रेक्षितुम्, अतो वाचकावाचकावेव साध्वसाधू इति स्थितम् । तेन तयोः प्रवर्तमानौ विधिनिषेधाविमौ व्यर्थौ भवेताम् । कथम् ?
साधुभिर्भाषणं तावत् प्राप्तत्वान्न विधीयते ।
अवाचकनिषेधश्चाप्राप्तेरेव न कल्पते ॥ न हि सलिलं पिबेदनलं न पिबेदिति विधिनिषेधौ सम्भवतः, सलिलपानस्य स्वतः प्राप्तत्वात्, अप्राप्ते च शास्त्रस्यार्थवत्त्वात् । ज्वलनपानस्य च कस्याञ्चिदवस्थायामप्राप्तेः प्रतिषेधानर्थक्यात् । प्राप्तिपूर्विका हि प्रतिषेधा भवन्ति ।
न हि ग्रीष्मे ज्वालायोगोपनीततृड्विकारः करभोऽपि यतेत इति । तत्रैतत् स्यात्, 15 गवादेर्गाव्यादेश्च वाचकत्वाविशेष साध्वसाधुशब्दोच्चारणकरणकपुण्यपातक
प्राप्तिपरिहारप्रयोजननियमविधानाय शास्त्रसाफल्यं भविष्यति । तदुक्तम्, 'वाचकत्वाविशेषेऽपि नियमः पुण्यपापयोः' इति ।
एतदपि दुर्घटम् । प्रविधेयांश्च निषेध्यांश्च शब्दानुपदर्य नियमो विधातव्यः, एभिर्भाषितव्यमेभिर्नेति । तत्र यद्युभये, ते शब्दाः प्रतिव्यक्ति 20 नामग्रहणपरिगणनपुरःसरमुपदर्येरंस्तदयमर्थः कल्पशतजीविनो भगवतः
परमेष्ठिनोऽपि न विषयः । प्रविततवदनसहस्रसङकुलमूर्तेरनन्तस्यापि न गोचरः । वाचस्पतेर्न भूमिः । सरस्वत्या अतिभारः, तेषामानन्त्येन दर्शयितुमशक्यत्वात् ।
अथ किञ्चिदुपलक्षणमवलम्ब्य तेषां वर्गीकरणमुपेयते, हन्त तर्हि दृश्यतां न च तत् सम्भवति ।
पारिभाषिकत्वप्रसङ्गादिति । एवंविधस्य साधुशब्दार्थस्य लोकेऽप्रसिद्धः ।
लवणोपयोगापनीततृड्विकारोऽपोत्यनेनास्मद्विलक्षणस्वभावत्वं तस्य आह; अस्माकं हि लवणोपयोगात् तृड् वर्धत इति ।