________________
5
10
15
20
25
१६४
न्यायमञ्जय
व्याकरणस्य न वेदार्थावधारकत्वं सम्भवति
अथ व्याकरणमेव वेदार्थव्युत्पत्तौ उपायतां प्रतिपत्स्यत इति मन्यसे, तदपि कथमिति चिन्त्यम् । न हि विवरणकार इव पाणिनिर्वेदं व्याचष्टे । व्याचक्षाणेऽपि वा परिमितदशिन्यस्मादृशे द्वेषादिदोषकलुषितमनसि तस्मिन्नस्मदादीनां वेदार्थं बुभुत्समानानां कीदृशो विस्रम्भः ? किं यथैष व्याचष्टे तथैव वेदार्थः, अन्यथा वेति । यदि तु साध्वसाधुशब्दविवेकद्वारेण व्याकरणं कारणं वेदार्थव्युत्पत्तेरित्युच्यते, तत्रापि स्वातन्त्र्येण वेदस्येव व्याकरणस्य शास्त्रत्वानुपपत्तेरङ्गसिद्धेश्च वैदिकविध्यपेक्षितार्थसम्पर्कित्वं नूतनमस्येषितव्यम् । साधुभिर्भाषितव्यमसाधुभिर्नेत्यनयोरेव विधिनिषेधयोरिति चेत् । नन्वेतावेव विधिनिषेधौ तावद्विचारयामः, किं प्रकरणे पठितौ किमनारभ्याधीतौ क्लृप्ताधिकारौ कल्प्याधिकारौ वेति ।
[ षष्ठम्
तत्रैव साध्वसाधुशब्दविभागे शङ्का
आस्तां चेदम् । वितता खल्वियं चिन्ता । साध्वसाधुशब्दस्याप्रसिद्धत्वात् किंविषयाविमौ विधिनिषेधौ स्यातामितीदमेव चिन्त्यताम् । ' व्रीहिभिर्यजेत' 'न कलञ्जं भक्षयेत्' इति व्रीहिकलञ्जयोः स्वरूपस्य लोकतोऽवगतौ तद्विषयविधिनिषेधबोधो न दुर्घटः । इह तु व्रीहय इव कलञ्जमिव न साध्वसाधुशब्दः प्रविवेकेन लोकतोऽवगम्यते । कृतश्रमश्रवणयुगलकरणिकासु प्रमितिषु शब्दस्वरूपमेव केवलं विषयतामुपयाति, न जातु तद्गतं साधुत्वमसाधुत्वं वा । न हि शब्दत्वादिजातिवदुदात्तादिधर्मवच्च साध्वसाधुतायां कस्यचिदपि श्रौत्रः प्रत्ययः प्रसरति । प्रत्यक्षप्रतिषेधे च सति तत्पूर्वकसम्बन्धग्रहणसम्भवादनुमानमपि निरवकाशमेव ।
शब्दस्तु द्विविधः पुरुषप्रणीतो वैदिको वा । तत्र पुरुषप्रणीतः प्रत्यक्षानुमानविषयीकृतार्थप्रतिपादनप्रवण एव भवतीति तदपाकरणादेव पराकृतः ।
क्व प्रकरणे पठिताविति । प्रयाजादिवत् । अथ न प्रकरणपरिपठितौ तत्किमनारभ्याधीतौ 'यस्य पर्णमयी जुहूः' इत्यादिवत् । क्लृप्ताधिकारौ 'चित्रया यजेत' इतिवत् । कल्प्याधिकारौ वा विश्वजिद्वत् ।