________________
आह्निकम् ]
प्रमाणप्रकरणम्
१६३
संस्कारबाह्य'र्गाव्यादिभिरेव शब्दैर्व्यवहरन्ति । तैश्च व्यवहरन्तः कथमिव वैदिकेषु शब्देषु व्युत्पत्तिमवाप्नुयुः ?
यद्यपि चास्ति एषि एमि इति कश्मीरेषु गच्छेति दार्वाभिसारेषु, करोमीति मद्रेषु कतिपये साधुशब्दाः पामरैरपि प्रयुज्यन्ते तथाप्यतीव प्रविरलसञ्चारोऽसौ व्यवहार इत्यनुपादेय एव वैदिकशब्देषु व्युत्पत्तेः ।
5
अथ व्याकरणस्य वेदाङ्गत्वात् ततः साध्वसाधुशब्दप्रविभागमवगच्छन्तः साधुभिर्भाषितव्यमसाधुभिर्नेति विधिनिषेधनियमितमतयः साधुभिरेव शब्दैर्व्यवहरन्तो विद्वांसस्तनीयसैव क्लेशेन वैदिकेष्वपि शब्देषु व्युत्पत्तिमासादयेयुरिति कथ्यते । तदपि न चतुरश्रम्, इतरेतराश्रयप्रसङ्गात् । वेदे हि सिद्धप्रामाण्ये तदङ्गभूतव्याकरणाभ्याससमासादितसाध्वसाधुशब्द- 10 प्रविवेकवृद्धव्यवहारपरिचयपुरस्सरा वैदिकशब्देषु व्युत्पत्तिः, तद्व्युत्पत्तौ च सत्यां बोधकत्वात् प्रतिपादकत्वलक्षणमप्रामाण्यमपोज्झतो वेदस्य प्रामाण्यमिति ।
,
अथ वेदाङ्गमिदमिति श्रद्धामवधूय यदृच्छाधीतेनैव व्याकरणेन पूर्वोक्तकार्यसिद्धेर्नेतरेतराश्रयमिति वर्ण्यते किमिदानीं नाटकप्रकरणादि- 15 काव्योपयोगिसंस्कृतभाषाविशेषपरिज्ञानायैव प्राकृतलक्षणवद् व्याकरणमध्येतव्यम् ? तथाभ्युपगमे वा अनङ्गत्वाविशेषात् प्राकृतलक्षणप्रसिद्धशब्दव्यवहारानुसारेण वैदिकशब्दव्युत्पत्तिरापाद्यत इति सुतरां दुःस्थत्वम् ।
अपि च सत्यपि व्याकरणाधिगमे श्रुतेऽपि साधुभिर्भाषितव्यमित्युपदेशे, सत्यं वदत, वेदार्थानुष्टानपरायणोऽपि कृतबुद्धिरपि निषिद्धाचरण - 20 पराङ्मुखोऽपि श्रोत्रियोऽपि श्रद्दधानोऽपि यदि कश्चित् केवलैः साधुभिरेव शब्दैर्व्यवहरन् दृष्टः; एकाकी तैश्च नानार्थक्रियासाधनभूतभूरिव्यवहारं निर्वहन् तदनुचरः परिज्ञातो न भूयः केवलसाधुशब्दप्रयोगकुशलः कल्पनीयः । कुतश्चासौ लभ्यते ? तस्मान्न वृद्धव्यवहाराद् वेदार्थव्युत्पत्तिरुपपद्यते ।
तदनुचरोऽपीति । भार्यादासादिर्येन सहासावालपति ।
25