________________
न्यायमञ्जऱ्यां
[षष्ठम्
दर्थो व्यवस्थापयितुं शक्यते; अन्यथा तत् कल्पनासम्भवात् । आह च,
तेनाग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतौ ।
खादेच्छ्वमांसमित्येष नार्थ इत्यत्र का प्रमा ॥ इति । तदेतद् बधिरस्य रामायणं वर्णितमस्माभिः । य एवमपि श्रुत्वा वेदार्थ5 परिगमाभ्युपायं मृगयते । अनेन हि पूर्वोक्तेन वाक्यार्थपरिगमोपायप्रकटनेन
सर्वमपाकृतं भवति । उक्त हि, नाभिनवाः केचन वैदिकाः शब्दाः, रचनामानं वेदे भिद्यते, न तु पदानि । सर्गात् प्रभृति च प्रवृत्तोऽयं वेदविदां व्यवहारः । ततश्च दीर्घप्रबन्धप्रवृत्ताद् अद्यत्वे वयसि व्युत्पद्यामहे । व्युत्पद्यमानाश्च तं तमर्थं प्रतिपाद्यमहे ।
किञ्च वेदार्थस्य परिज्ञानौपयिकानि व्याकरणमीमांसाशास्त्राणि क्व गतानि, यदेषु जीवत्सु न वेदार्थोऽवधार्यते ? अपि च रे मूढ ! स्वयं रागादिमतः प्रत्यक्षमतीन्द्रियेऽर्थे मा प्रतिष्ट, न तु रागादिमानग्निहोत्रं जुहुयात् स्वर्गकाम इति वाक्यादपि अग्निहोत्राख्यं कर्म स्वर्गसाधनमिति नाव
गच्छेत् । अतीन्द्रियेऽर्थे नियता कुतो व्युत्पत्तिरिति चेत्, उक्तमत्र वेदवत् तद्15 व्यवहारस्य तदर्थपरिगमोपायस्य सुचिरप्ररूढत्वात् । वेदश्चार्थश्च तदु
पायश्च तदनुष्ठानञ्च नाद्यत्वे प्रवृत्तानि । किन्तु केषाञ्चिन्मते अनादीन्येव, अस्मन्मते तु जगत्सर्गात् प्रभृति प्रवृत्तानि, कस्तेष्वद्य पर्यनुयोगावसरः ? सेयमनेन पापकारिणा खादेच्छ्वमांसमित्याद्यपभाषणेन केवलमवीचिकेदार
कुटुम्बिनमात्मानं कर्तुं वेदनिन्दैव मन्दमतिना कृता, न दूषणमभिनवं 20 किञ्चिदुत्प्रेक्षितमिति ।
अथापर आह । किमेष तपस्वी पराणुद्यते, किमनेनापराद्धम, किमनेन विरुद्धमभिहितम् ? न हि लोकतो वेदार्थे व्युत्पत्तिरवकल्पते । कोऽयं लोको नाम ? किं यः कश्चित् प्राकृतः, उत वैयाकरणः संस्कृतमतिरिति । तत्र शाकटिकाः साधुशब्दप्रयोगानभिज्ञमनसो निसर्गत एवाक्षतकण्ठा वराकाः
अवीचिकेदारकुटुम्बिनमिति । अवीच्याख्यनरकक्षेत्रस्वामिनं तत्सम्बद्धमित्यर्थः । निसर्गत एवाक्षतकण्ठाः । व्याकरणादिपाठेन न क्षतः कण्ठो येषाम् ।