________________
१५७
आह्निकम् ]
प्रमाणप्रकरणम् स्त्येव समन्वय इति चेत्, अर्थासंस्पर्शी शब्दः प्राप्नोति, बहिरन्वयाभावात् । प्रकाशकत्वमानं व्यापार इति चेत्, बाढम् । तत्तु अनन्वितविषयं वेदितुं युक्तम्, न पुनरन्वितविषयमेवेति शक्यते नियन्तुम् ।।
दशदाडिमादिवाक्यमनन्वितार्थप्रतिपादकमपि दृश्यते । यतो न तद वाक्यमिति चेत् ? तदङगुल्यग्रवाक्यमपि वाक्यमेव ? आधाराधेयक्रियासंसर्ग-5 प्रतीतिस्तु भ्रममात्रम् । तस्मादन्वितमर्थमभिदधति पदानीत्यसमीचीनम् ।
तत् किं शलाकाकल्पाः परस्परमसंसृष्टा एव पदार्थाः पदैरुच्यन्ताम् ? एतदपि नास्ति, तथाविधव्यवहाराभावात्, पश्चादन्वयस्य च दुरवगमत्वात्, विरम्य व्यापारस्य चासंवेदनात् । तस्मात् पक्षद्वयमपि न क्षेमाय । तदुक्तम्,
मतद्वयमपीदन्तु नास्मभ्यं रोचतेतराम् ।
कुतोऽन्विताभिधानं वा कुतो वाभिहितान्वयः ॥ तत्रैव मतान्तरम्, तत्खण्डनच ___ अन्या तु वाचोयुक्तिः कैश्चित् कृता, अन्वीयमानाभिधानमभिधीयमानान्वयश्चेति । सापि न हृदयङ्गमा,
न हि द्वे अनुभूयेते क्रिये एते पृथक् स्थिते ।
अभिधानक्रिया चान्या वाच्यस्था चान्वयक्रिया ।। . ते हि क्रमेण वा स्यातां युगपद् वा । क्रमपक्षे पूर्वमन्वयक्रिया चेत्, तदिदमन्विताभिधानमेव नान्वीयमानाभिधानम् । पूर्वं चेदभिधानमभिहितान्वय एव
अन्वीयमानाभिधानमिति । पदार्थान्तरेणान्वयं गच्छन् पदार्थः पदैरभिधीयत इत्यत्र पक्षेऽन्वितस्यानभिधानात् पदार्थनियमानवधारणपदान्तरवैफल्यादिदोषानवकाशः। 20 अभिधीयमानान्वयेति । अभिहितान्वयपक्षे च यो दोषो वाक्यार्थस्याशाब्दत्वम्, सोऽप्यत्र नास्ति । अभिधीयमानानां शब्दैः प्रतिपाद्यमानानामभिधाविषयत्वमजहतां हि योऽन्वयः, स कथमशाब्दः स्यादिति तदभिप्रायः । यत एव वान्वयं गच्छन्तः शब्दरभिधीयन्ते, अत एवाभिधीयमानानामन्वयः। अभिधानक्रिया चान्येति । अस्मिन् हि पक्षे शब्दश्चाभिदधदर्थश्चार्थान्तरेणानुलभ्यते, तयोश्वोपलम्भः क्रमेण युगपद् वेति ।
25