________________
१५६
10
न्यायमञ्जऱ्यां
[ षष्ठम् लोचनया गोपदस्यार्थो निर्धार्यते, तावानेव सङ्घातकार्येऽपि व्याप्रियमाणस्य तस्यार्थः ।
नन्वाकाङ्कितयोग्यसन्निहितार्थोपरक्तोऽस्यार्थ इत्युक्तम्, न सर्वदा संहतव्याप्रियमाणमेतत् पदं पश्यतस्तवायं भ्रमः, अर्थस्तावानस्य यावत्यभिधात्री शक्तिः । कियती च तस्याभिधात्री शक्तिः, कियती तस्यानभिधात्री शक्तिः ? यावन्तमर्थमन्योन्यमाकाङ्कितैश्च योग्यैश्च सन्निहितैश्च संयुज्यमानं न मुञ्चति । कियन्तञ्च न मुञ्चति ? गोत्वमानं तद्वन्मानं वेत्यतस्तावत्येवाभिधात्री शक्तिरन्वयव्यतिरेकाभ्यामस्य निर्धार्यते । अतः परमेकस्य पदस्याप्रयोगात् सर्वदा सङ्घातकार्यरहितकेवलस्वकार्यचातुर्यानवधारणात् प्रधानकार्ये तात्पर्यशक्तिरस्य व्याप्रियते, नाभिधात्री। ताञ्च पृथगविवेचयता भवतान्विताभिधानमभ्युपगतम् । तच्च न युक्तम्, सर्वत्राभिधात्र्याः शक्तेरविशेषात्, पदार्थनियमानवधारणं पदान्तरोच्चारणवैफल्यमित्यादिदोषानपायात् । येनान्वितमर्थमभिदधाति गोशब्दस्तदनभिधाने तदन्वितानवगमाद् येन सह संसर्गः, स न गृह्यते, तत्संसृष्टश्च गृह्यत इति विप्रतिषिद्धं स्यात् । तदभिधाने वा तद्वत् सर्वाभिधानमित्येकमेव गोपदं सर्वार्थं भवेत् । तस्मान्न सर्वत्राभिधात्री शक्तिः पदस्योपपद्यत इति नान्विताभिधानम् ।
अन्विताभिधानपक्षे च कथमङ्गुल्यग्रवाक्येऽपि नान्वयः स्यात् । शाब्दोऽ
भवतान्विताभिधानमभ्युपगतमिति। ननु तात्पर्यशक्त्यनभ्युपगमेऽप्यन्विताभिधानाभ्युपगमे को दोषः ? इत्याह तच्च न युक्तमिति । सर्वत्राभिधात्र्याः शक्तेरविशेषादिति । अन्विताभिधानाभ्युपगमे हि एकैकस्य सर्वार्थाभिधानशक्तिरविशिष्टा, अन्यथाभिधानाभावप्रसङ्गात् । ततश्च पदार्थेयत्तावधारणं पदान्तरोच्चारणसाफल्यं च न सिद्धयति । तात्पर्यशक्त्यभ्युपगमे ह्येतावत्यभिधात्र्येव शक्तिर्न तात्पर्यशक्ति
रित्यभिधातृशक्त्यपेक्षया पदार्थेयत्तासिद्धिः, अत एव पदान्तरोच्चारणमपि 25 सफलम् । तदन्वितार्थप्रतिपादनेऽभिधात्र्याः शक्तेरव्यापृतेः, एकरूपशक्त्यभ्युपगमे तु
किमपेक्षया नियमः ? किञ्च पदान्तरोच्चारणस्य फलमिति सर्वत्राभिधात्र्याः शक्तेरविशेषादिति यदुक्तं तदेव 'येनान्वितमभिवदति' इत्यादिना दर्शयितुमाह ।