________________
१५५
आह्निकम् ]
प्रमाणप्रकरणम् अत एव प्रमाणत्वं शब्दे निष्प्रतिमं स्वतः । शब्दे कर्मणि तत्रापि बाधकानुपसर्पणात् ।।
तत्रागुल्यग्रवाक्येऽपि शाब्दोऽस्त्येव समन्वयः । आधाराधेयक्रियानिर्देशस्यात्र प्रतीयमानत्वात् ।
वस्तुतोऽसम्भवो यस्तु तुल्य एव स आवयोः ।
अयोग्यत्वेन संसर्गप्रतीत्यर्थनिबर्हणात् ॥ यदि तु शाब्दोऽनन्वयो भवेत् कचटतपादिवर्णनिर्देशमात्रमिदं स्याद् दशदाडिमादिप्रवादवदत्राप्यन्विताभिधानं न विरुद्धम्, बाधकस्त्वन्यविषय एव न शब्दसंसर्गविषय इत्युक्तम् । अत एव स्वसामर्थ्यसिद्धनिर्निबन्धकव्यापारे शब्दे स्वतो वेदे प्रामाण्यमनाकुलं निर्वक्ष्यत्यपौरुषेयतया विप्लवा- 10 सम्भवात्, स्वव्यापारस्य तत एव शुद्धत्वमित्यलमतिप्रसङ्गेन ।
इत्यन्विताभिधानेन वाक्यार्थज्ञानसम्भवात् ।
व्युत्पत्तिरहितः प्राज्ञैः प्रहेयोऽभिहितान्वयः ।। केषाञ्चिन्मतेऽन्विताभिधानखण्डनम्
तदेतदपि नानुमन्यन्ते । यदुक्तं वृद्धव्यवहाराद् व्युत्पत्तिरिति, तत्सत्यम्; 15 वाक्येन व्यवहार इत्येतदपि सत्यम्, शिबिकोद्यच्छन्नरवत् सर्वाणि पदानि कार्ये संहत्य व्याप्रियन्ते इत्येतदपि सत्यमेव । व्युत्पत्तिश्चिन्त्यताम्, किमेकघनाकारसङ्घातकार्यनिष्ठेव, किं वा पदार्थपर्यन्तेति ? पूर्वस्मिन् पक्षे प्रतिवाक्यं व्युत्पत्तिरपरिहार्या, सा च बहुप्रमादेत्युक्तम् । पदार्थपर्यन्तायां व्युत्पत्तौ नूनं निर्धारणीयमियान् पदस्यार्थ इति । भवद्भिरपि शकटावयवदृष्टान्तवर्णनेन 20 पदव्यापारनिर्धारणमङ्गीकृतमेव, इतरथा हि पदार्थनियमानपेक्षणे गामानयेति विवक्षावानश्वपदमपि निमित्ततयोपाददीत । न हि भवतामनपेक्षितपदार्थ एव वैयाकरणानामिव वाक्यार्थप्रत्ययः । तदसौ यावान् आवापोद्वापपर्या
तत्रापि बाधकानुपसर्पणादिति । अङ्गुल्यग्रादिवाक्येऽपि यच्छाब्दं कर्म शब्दव्यापारः समन्वयप्रतिपादनं तत्र नास्ति बाधकम्, शब्दोच्चारणमूलभूतज्ञानविषयत्वाद् 25
बाधकस्य।