________________
[षष्ठम्
5
१५८
न्यायमञ्जनाभिधीयमानान्वयः । युगपत्तु क्रियाद्वयसंवेदनं नास्ति, अर्थगतायाः क्रियायाः शब्दप्रयोगकालेऽनुपलम्भात् ।
अभिधानक्रियैवैका तदभिज्ञैः परोक्ष्यते ।
अन्वीयमानतार्थानामभिधानाद् विना कुतः ॥ गौः शुक्ल इति जातिगुणयोरेकद्रव्यसमवेतयोरपि शब्दमन्तरेण कुतोऽन्वयमवगच्छामः ?
उक्तेनूतनतैवेयं न पुनर्वस्तु नूतनम् ।
न चात्रापि निवर्तन्ते दोषाः पक्षद्वयस्पृशः ॥ तात्पर्यशक्त्यवान्वयबोध इति मतप्रदर्शनम्
अन्ये मन्यन्ते, सामान्येनान्विताभिधानं, विशेषतश्चाभिहितान्वय इति । . गोशब्दो हि स्वार्थमनवगतविशेषगुणक्रियासामान्यान्वितमभिधत्ते, तावत्यन्विताभिधानम् । शुक्लादिगुणविशेषसम्बन्धस्तु पदान्तरादवगम्यते, सोऽयं विशेषोऽभिहितान्वय इत्येतदपि तादृगेव ।
___ दोषोऽन्विताभिधाने यः सामान्येऽपि स तादृशः ।
दोषस्तुल्यो विशेषेऽपि यश्चोक्तोऽभिहितान्वये । __ न चेदमपूर्ववस्तु वणितमभिहितान्वयवादिनो विशेषे एवाभिहितान्वय आश्रीयत इति प्राक्तन एवेष्टः पन्था वेदितव्यः । कथं तयमाभिधानिको व्यवहारः, सङ्कुलमिवैनं पश्यामः, सर्वत्र दोषसम्भवात् ।
उच्यते, न कदाचिदत्र सङकुलता, संहत्यकारीणि हि पदानीत्युक्तम् ।
20
दोषाः पक्षद्वयस्पृश इति । अन्वोयमानाश्चेदभिधीयन्ते तदेकेनैव पदेनेतरपदार्थान्वीयमानस्याभिधानात् पदान्तरनैरर्थक्यमित्यादि समानम्; अभिधोयमानानां चान्वये पुनरप्यशाब्दत्वम् , शब्दव्यापारस्य शुद्धाभिधानक्रियायामेवोपक्षीणत्वात् ।
दोषोऽन्विताभिधाने य इति । क्रियापदेन कारकसामान्यान्वितस्वार्थप्रतिपादनात् कारकपदनैष्फल्यादि समानम् । अथ कारकविशेषप्रतिपत्तये कारकपदोच्चारणं तत्राप्याह दोषस्तुल्यो विशेषेऽपोति । पदानां सामान्यप्रतिपत्तावेव चरितार्थत्वाद् विशेषप्रतिपत्तेस्तद्वदेवाशाब्दत्वम्, विशेषान्वयस्यैव वाक्यार्थत्वादिति ।