________________
१५०
न्यायमञ्जऱ्यां
[ षष्ठम् यदि तावत् सोऽर्थः पदैरभिधीयते । पदान्तरार्थोपरक्ते तु तस्मिन् अभिधीयमाने तदर्थेयत्तैव नावधार्यते, कदम्बाकारार्थप्रतीतेः। आवापोद्वापाभ्यांतदवधारणमिति चेत्, मैवम्; आवापोद्वापपरीक्षावसरेऽपि कदम्बप्रतीत्यनपायात् । न ह्येकमेव किञ्चिद् वाक्यमन्विताभिधायिपदग्रथितम्, अन्यत्र तु शुद्ध एव पदानामर्थः, किन्तु सर्वत्र कदम्बकरूपादुपायात् कदम्बकरूपमुपेयं प्रतीयत इति दुरवगमः पदार्थविभागः । ततश्च पदार्थानामनपेक्षणे गामानयेति वाक्यादश्वबन्धननियोगः प्रतीयेत । अपेक्ष्यते तु पदानामर्थः, सोऽपेक्ष्यमाण इयानिति नियतोऽवधारयितव्यः । तदवधारणं शुद्धाभिधायिषु पदेष्ववकल्पते । तस्मात् पदपदार्थयो
रौत्पत्तिकः सम्बन्ध इष्यते । वृद्धव्यवहारेषु च वाक्यादपि भवन्ती व्युत्पत्तिः 10 पदपर्यन्ता भवति । इतरथा हि प्रतिवाक्यं व्युत्पत्तिरपेक्ष्यते, सा चानन्त्याद्
दुरुपपादेति शब्दव्यवहारोच्छेदः स्यात् । दृश्यते च पदार्थविदामभिनवकविश्लोकादपि वाक्यार्थप्रतोतिः । सा पदतदर्थव्युत्पत्त्यावकल्पते । वाक्यवाक्यार्थयोस्तु व्युत्पत्तावपेक्षमाणायां सा न स्यादेव, तस्मान्नान्विताभिधानम् ।
अतश्चैवं पदान्तरोच्चारणवैफल्यप्रसङ्गादेकस्मादेव पदात् तदुपरञ्जक15 द्वितीयपदार्थावगतिः सिद्धैव; तदपि पदमन्यानुरक्तस्वार्थवाचीत्यनेनैव
न्यायेनैकमेव पदमखिलपदाभिधेयार्थवाचि सम्पन्नमिति तेनैव व्यवहारोऽस्तु । न चासौ सम्पद्यते, गौरित्युक्ते सर्वगुणक्रियावगमान्न ज्ञायते किमुपादीयतामिति । सर्वागमो ह्यनवगमनिविशेष एव, व्यवहारानुपपत्तेः । न हि रसविदां पूर्णोऽप्यब्धिर्मरोरतिरिच्यते, सलिलकार्यानिष्पत्तेः । नियतगुणक्रियानुरक्तस्वार्थप्रतिपादने तु गोशब्दस्य न हेतुमुत्पश्यामः ।
पदान्तरसन्निधानं नियमहेतुरिति चेत्, किं स्वरूपमात्रेण, अर्थप्रतिपादनेन वा ? स्वरूपमात्रेण जपमन्त्रपदानामिव सन्निधानं भवदप्यसन्निधानान्न विशिष्यते, अगुहीतसम्बन्धस्य तत्कृतोपकारादर्शनात् । अर्थप्रतिपादनेन तु
पदान्तरं यदि नियमहेतुः ? सोऽयभिहितानामनामन्वय उक्तो भवति । 25 तस्मात् स एव श्रेयान् । पदेभ्यः प्रतिपन्नास्तावदर्था आकाङ्क्षासन्निधि
योग्यत्ववशेन परस्परमभिसम्बध्यन्ते । यो येनाकाङ्कितो यश्च सन्निहितो यश्च सम्बन्धुं योग्यः स तेन सम्बध्यते नातोऽपरः । अत एवाङगुल्यग्रे हस्तियूथ