SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ आह्निकम् ] प्रमाणप्रकरणम् १५१ शतमास्त इति नास्ति सम्बन्धो योग्यत्वाभावात् । अन्विताभिधानवादिनान्तु अन्वितस्यानभिधानात् तत्राप्यन्वयः प्राप्नोति, स च नास्ति । तस्मादभिहितानामेव पदार्थानामन्वय इति युक्तम् । तदुक्तम्, ‘पदानि हि स्वं स्वमर्थमभिधाय निवृत्तव्यापाराणि, अथेदानीमा अवगता वाक्यार्थं सम्पादयन्ति' इति । तत्खण्डनम् 5 एवं प्राप्तेऽभिधीयते, न व्युत्पत्तिनिरपेक्षो दीप इव शब्दोऽर्थमवगमयतीति । व्युत्पत्तिश्च वृद्धव्यवहाराद् वृद्धानाञ्च व्यवहारो वाक्येन न पदेन, केवलस्य पदस्याप्रयोगात् । अर्थप्रकरणप्राप्तपदार्थान्तरवेदने । पदं प्रयुज्यते यत् तद् वाक्यमेवोदितं भवेत् ॥ वक्ता वाक्यं प्रयुङ्क्ते च संसृष्टार्थविवक्षया । तथैव बुद्धयते श्रोता तथैव च तटस्थितः ॥ सेयं वाक्यस्य वाक्यार्थे व्युत्पत्तिः । वाक्यञ्च किमुच्यते ? संहत्यार्थमभिदधति पदानि वाक्यम् । एकार्थः पदसमूहो वाक्यमिति वाक्यविदः । तत्रायं पदसमूह एकार्थो भवति । एवं न संहत्यार्थमभिदध्युः पदानि यद्यकस्यैव 15 पदस्य व्यापारः । यथा हि बाह्यानि करणानि काष्ठादीनि पाके व्याप्रियन्ते, यथा च शिबिकाया उद्यन्तारः सर्वे शिबिकामुद्यच्छन्ति, यथा त्रयोऽपि ग्रावाण उखां बिभ्रति, तथा सर्वाण्येव पदानि वाक्यार्थमवबोधयन्ति । तदिदमन्त्रिताभिधानम्, अन्यानन्वितनिष्कृष्टस्वार्थपर्यवसायित्वे हि सति न सर्वेषां वाक्यार्थव्यापारः स्यात् । नन्वेवमेकैकस्य कृत्स्नकारित्वे सत्येकस्मादेव कृत्स्नसिद्धेः पदान्तरोच्चारणं व्यर्थमित्युक्तम्, नैतत् । पदान्तरेण विनैवैकस्मात् कृत्स्नकारित्वसम्पत्त्यभावात् । न तर्खेकं कृत्स्नकारीति चेत्, मैवम्; एकैकस्य कृत्स्नफलपर्यन्तव्यापारपतितत्वादेकैकस्मिन् सति कृत्स्नफलपर्यन्तो व्यापारो निवर्तत इत्येवमेकैकं कृत्स्नकारि भवति । नन्वेवं तहि समुदाय एव कर्ता भवतु, किं समुदायिभिः ? ततश्च तदेवायातं निरवयवौ वाक्यवाक्यार्थाविति, नैतद्युक्तम् । सङ्घातकार्यवत्
SR No.002346
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1983
Total Pages384
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy