________________
.
आह्निकम् ] प्रमाणप्रकरणम्
१४९ पदार्थानां परस्परं सम्बन्धविचारोपक्रमः
ननु मा भूत् पदस्फोटो वाक्यस्फोटश्च वाचकः । मा च भूतामिमौ वाक्यवाक्यार्थी भागवजितौ ।। भवन्तु भवदाख्याताः पदवाक्यादिकल्पनाः ।
पदार्थानान्तु संसर्गे मार्गः क इति कथ्यताम् ॥ असंसृष्टा हि गौरश्वः पुरुषो हस्तीति पदार्था न वाक्यार्थभावमधिरोहन्ति । अन्त्यपदार्थज्ञानान्तरभाविना हि स्मरणेन वानुव्यवसायेन वा विषयीक्रियमाणास्ते यथावगता एव विषयीक्रियन्ते, संसर्गावगमस्तु कुतस्त्य इति चिन्त्यम्। तेषां संसर्गज्ञाने शङ्का
10 __उच्यते, अस्त्यत्र विवादः । केचिदाचक्षते अन्विता एव पदार्थाः पदैरभिधीयन्ते, अन्यथा पदानां वाक्यत्वायोगादिति ।
अन्ये मन्यन्ते शुद्धानामेव पदार्थानां पदैरभिधानम् । ते तु तथाभिहिताः सन्तः परस्परमाकाङ्क्षासन्निधियोग्यत्वपर्यालोचनया संसर्गमधिगमयन्तीति ।
तत्रेदं विचार्यम् । व्युत्पत्तिर्बलीयसी, न शब्दोऽर्थमवगमयति व्युत्पत्तिमन्तरेण । व्युत्पत्तिश्च किं वाक्यस्य वाक्यार्थे पदस्य वा पदार्थे इति । यदि वाक्यस्य वाक्यार्थे व्युत्पत्तिस्तदन्विताभिधानम् । पदस्य पदार्थे व्युत्पत्तावभिहितान्वय इति । बाक्यार्थबोधार्थमभिहितानामेवान्वयः
किं तावत् प्राप्तमभिहितान्वय इति, पदार्थप्रतिपत्तिपूर्वकत्वाद् वाक्यार्थप्रतिपत्तेः । न ह्यनवगतपदार्थस्य वाक्यार्थसम्प्रत्ययो दृश्यते। पदार्थप्रविभागाच्च गम्यतेऽस्य पदस्य जातिरर्थोऽस्य द्रव्यमस्य गुणोऽस्य क्रियेति । स चैवमवकल्पते
अन्यथा पदानां वाक्यत्वायोगादिति। वाक्यात् संसर्गस्य प्रतीतेः पदानां तदनभिधाने वाक्यत्वायोगः। न सर्वेषां वाक्यार्थे व्यापारः स्यात् , वाक्यार्थस्य संसर्ग- 25 स्वभावत्वात् ।
20