________________
[षष्ठम्
१४६
न्यायमञ्जसंस्कारप्रबोधे तस्य व्यापार इति चेत्, तेनापि द्वारेण यत् कारणं तत् कारणमेव । तदिह पदज्ञानं समयस्मरणं पदार्थज्ञानमिति त्रीणि ज्ञानानि युगपदवतिष्ठन्त इति परः प्रमादः ।
अपि च पदज्ञानमुपजायमानं वर्णक्रमेण जायते न सहसैव, निरंशपद5 वादस्य व्युदस्तत्वात् । तत्र च द्वित्राणि त्रिचतुराणि पञ्चषाणि वाक्षराणि क्रमेण
ग्रहीष्यन्ते, तद्विषया हि क्रमभाविन्य उपजननापायर्मिका बुद्धयः । अत्रान्तरे विनश्यदवस्थमन्त्यपदज्ञानमासिष्यते तदुपरागेण द्वितीयपदज्ञानमुपपत्स्यत इति दुराशवेयम् ।
अपि च व्यवहितोच्चारितेभ्योऽपि पदेभ्यो वाक्यार्थप्रत्ययो दृश्यते । 10 यत्रानेककार्यपर्यालोचनव्यग्रहृदयः स्वामी 'रे कन्दलक'इत्युक्त्वा कार्यान्तरं
संविधाय 'तुरगम्' वदति, पुनः प्रयोजनान्तराय व्यवहृत्य 'कल्पितपर्याणम्' इत्यपि वक्ति, पुनरन्यत् किमपि कृत्वा ब्रवीति 'आनय' इति । तत्र ‘रे कन्दलक कल्पितपर्याणमश्वमानय'इति वाक्यार्थावगमो भवति। भवन्मते चासौ दुरुपपादः, पदानुरागस्य तत्रासम्भवात्, सर्वपदस्मरणस्य चानभ्युपगमात् ।
किञ्च, न प्रवरमतानुसारिणामिव सम्बन्धविशेषबुद्धिषु विशेषणविशेष्ये द्वे वस्तुनी आलम्बनम्, अपि तु विशेष्यमात्रम्, उपायभेदादेव प्रतीत्यतिशय इति । तस्मिंश्च सत्यपि पूर्वपदानुरागे तत्प्रतिभासाभावात् शुद्धमेव द्वितीयपदज्ञानं सम्पन्नमिति किं तदनुरागेण ? अतश्चेयमनुपपन्ना कल्पना, यतो द्वितीय
पदस्य स्वार्थे शुद्धमेव सङ्केतग्रहणं वृत्तं यदा क्वचित् प्रथमं प्रयुक्तमासीत्, 20 अधुना तु तत्पदं पदान्तरोपरक्तं सञ्जातमिति तथाविधस्य गृहीतत्वादर्थ
प्रतिपत्तिहेतुत्वं न स्यादित्यास्तामपूर्वमिदं शङ्करस्वामिनः पाण्डित्यम् ।
त्रीणि ज्ञानानि युगपदवतिष्ठन्त इति । पदज्ञानस्य तावद् विनश्यदवस्थस्य त्वयैव सत्ताभ्युपगता, सङ केतस्मरणस्य च पदार्थज्ञानोत्तरकालं विनाशादिति ।
__सत्यपि पूर्वपदानुराग इति । यथाचार्यमतव्याख्यानावसरेऽव्यपदेश्यपदे 25 दण्डोत्यादीनां शुद्ध पुरुषालम्बनत्वं प्रतिपादितमिति । तथाविधस्य गृहीतत्वादिति ।
अतस्तादृशस्य ज्ञानात् सङ केतस्मरणानुपपत्तिः। शङ्करस्वामी न्यायभाष्यटीकाकृत् ।