________________
आह्निकम् ] प्रमाणप्रकरणम्
१४७ स्वमतेन वाक्यार्थबोधप्रकारः
आह, यदि इमाः सर्वा एव तान्त्रिकरचिताः कल्पना न साधीयस्यश्चेत्, आत्मीया काचन निर्दोषा साध्वी कल्पना निवेद्यताम्। उच्यते, न वयमात्मीयामभिनवां कामपि कल्पनामुत्पादयितुं क्षमाः
न हीयं कविभिः पूर्वैरदृष्टं सूक्ष्मदर्शिभिः । शक्ता तृणमपि द्रष्टुं मतिर्मम तपस्विनी ।। कस्तहि विद्वन् मतितर्कणीयग्रन्थोपबन्धे तव दोहदोऽयम् । न दोहदः पर्यनुयोगभूमिः परोपदेशश्च न तस्य शान्तिः ।। राज्ञा तु गह्वरेऽस्मिन्नशब्दके बन्धने विनिहितोऽहम् ।
ग्रन्थरचनाविनोदादिह हि मया वासरा गमिताः । तथापि वक्तव्यं कथं वर्णेभ्यो वाक्यार्थप्रतीतिरिति । उच्यते, चिरातिक्रान्तत्वमचिरातिक्रान्तत्वं वा न स्मृतिकारणम् । संस्कारकरणकं हि स्मरणं भवति । तच्च सद्यः प्रलीने चिरप्रलीने वा न विशिष्यत इति । एवं पूर्वेषां पदानां चिरतिरोहितानामपि व्यवहितोच्चारितानामपि संस्कारात् स्मरणं भविष्यति। अन्त्यपदस्यानुभूयमानत्वोपगमे ज्ञानयोगपद्यादिप्रमादप्रसङ्ग इति 15 वरमन्त्यपदमपि स्मर्यमाणमस्तु, स्मृत्यारूढान्येव सर्वपदानि वाक्यार्थमवगमयिष्यन्ति । तत्र चेयं कल्पना, वर्णक्रमेण तावत् प्रथमपदज्ञानं ततः सङ्केतस्मरणं संस्कारश्च युगपद् भवतः, ज्ञानयोहि यौगपद्य शास्त्रे प्रतिषिद्धं न संस्कारज्ञानयोः । ततः पदार्थज्ञानं तेनापि संस्कारः पुनर्वर्णक्रमेण द्वितीयपदज्ञानं ततः सङ्केतस्मरणं पूर्वसंस्कारसहितेन च तेन पटुतरः संस्कारः 20 पुनः पूर्ववर्णक्रमेण तृतीयपदज्ञानं सङ्केतस्मरणं पूर्वसंस्कारापेक्षः पटुतरः संस्कार इत्येवं पदज्ञानजनिते पीवरे संस्कारे पदार्थज्ञानजनिते च तादृशि संस्कारे स्थितेऽन्त्यपदार्थज्ञानानन्तरं पदसंस्कारात् सर्वपदविषयस्मृतिः, पदार्थसंस्काराच्च पदार्थविषया स्मृतिरिति संस्कारक्रमात् क्रमेण द्वे स्मृती भवतः,
राज्ञा तु गह्वरेऽस्मिन्निति। कश्मीरे कचित् खसदेशे चिरकालमरण्यान्यामसौ 25 श्रीशङ करवर्मणो राज्ञ आज्ञया स्थितवानिति वार्ता ।