________________
आह्निकम् ] प्रमाणप्रकरणम्
१४५ क्रियायां तदेव कर्म करणञ्च भवितुमर्हति, विस्तरतश्चायं वाचकावच्छिन्नवाच्यप्रतिभासः प्रत्यक्षलक्षणे प्रतिक्षिप्त इत्यलं पुनस्तद्विमर्दैन । मतान्तरेण वाक्याद् वाक्यार्थबोधः
आह, प्रथमं पदज्ञानं ततः सङ्केतस्मरणं ततः पदार्थज्ञानं पदार्थज्ञानात् पदज्ञानस्य विनश्यत्ता विनश्यदवस्थपदज्ञानमपेक्षमाणं श्रोत्रं 5 प्रथमपदावच्छेदेन द्वितीयपदे ज्ञानमादधाति । द्वितीयपदज्ञानानन्तरं पुनः सम्बन्धस्मरणं ततः पदार्थज्ञानम् । तेन द्वितीयपदज्ञानस्य विनश्यत्ता विनश्यदवस्थपदज्ञानसहायाच्छोत्रात् तथैव तदवच्छेदेनोत्तरोत्तरपदज्ञानं तावद् यावदन्त्यपदज्ञानमिति । तज्ज्ञानानन्तरञ्च प्राक्तनप्रक्रियावन्नात्र पूर्वपदस्मरणमुपयुज्यते, तत्फलस्य च विनाशदशापतितपदज्ञानकृतावच्छेदमहिम्नैव सिद्ध- 10 त्वात् । तस्य हि फलमन्त्यपदावगमसमये सकलपूर्वपदोपस्थानम्, तच्च विनश्यदवस्थपूर्वपूर्वपदज्ञानकृतोत्तरोत्तरपदानुरागबलादेव लब्धमिति किं तत्तत्स्मरणेन ? तदभावाच्च नात्र ज्ञानयोगपद्यादिचोद्यावसरः समस्ति । यथोपर्शितान्त्यपदज्ञानमेव च वाक्यार्थज्ञानमिति न चरितार्थत्वमत्र । इत्येवं वाक्यादेव वाक्यार्थप्रत्ययः सेत्स्यति पदार्थभ्य इति ।
15 तन्मतखण्डनम्
इयमपि न निरवद्या कल्पनेत्यपरे। प्रथमपदोपरागपूर्वकद्वितीयपदज्ञानोपजननानुपपत्तेः । प्रथमपदज्ञानानन्तरं सम्बन्धस्मरणं तेनैव तस्य विनश्यत्ता पदार्थप्रतिपत्तिकाले च पदज्ञानं विनष्टमेव, विनश्यदवस्था बुद्धिबुद्धयन्तरविरोधिनीति सामान्येन श्रवणात् ।
20 ___ अथ ब्रूयात्, कार्यभूतया बुद्धया कारणभूता बुद्धिविरोध्येत, न बुद्धिमात्रेण बुद्धिमात्रमिति, एतदयुक्तम् । विशेषे प्रमाणाभावात् । अभ्युपगम्यापि ब्रूमः, कार्यकारणभूतयोरेव बुद्ध्योर्भवतु वध्यविघातकभावः, तथापि पदज्ञानं संस्कार इव समयस्मृतेः कारणमेव, संस्कारेणेव तेनापि विना तदनुत्पादात् ।
_ न बुद्धिमात्रेण बुद्धिमात्रमिति । सङ केतस्मरणं हि संस्कारकार्यम्, न पदज्ञान- 25 कार्यमिति मन्यते ।
न्या० म० १९