________________
१४२
न्यायमञ्जऱ्यां
[ षष्ठम्
वर्णानां पदत्ववाक्यत्वज्ञानप्रकारः
आह, कया पुनः कल्पनया पदवाक्यभावमुपगता वर्णाः पदार्थवाक्यार्थप्रतीतिमादध्युरिति ।
तत्राचार्यास्तावदिमां कल्पनामदीदृशन् । प्रथम वर्णज्ञानं ततः संस्कार5 स्ततो द्वितीयवर्णज्ञानं तेन प्रथमवर्णज्ञानजनितेन च संस्कारेण पटुतरः
संस्कारस्ततस्तृतीयवर्णज्ञानं तेन प्राक्तनेन संस्कारेण पटुतरः संस्कारः, एवं यावदन्त्यवर्णज्ञानम्, अन्त्यवर्णज्ञानानन्तरन्तु ततः संस्कारात् सकलपूर्ववर्णविषयमेकस्मरणं तेनान्त्यवर्णज्ञानस्य विनश्यत्ता विनश्यदवस्थग्रहणस्मरण
विषयीकृतो वर्णसमूहः पदमिति ज्ञायते । ततः पदज्ञानात् संस्कारस्ततस्तथैव 10 वर्णक्रमेण द्वितीयपदज्ञानं तेन प्रथमपदज्ञानजन्मना च संस्कारेण पटुतरः
संस्कारो जन्यते पुनस्तेनैव क्रमेण तृतीयपदज्ञानं तेन प्राक्तनेन च संस्कारेण पीवरतरः संस्कारो जन्यते, एवं यावदन्त्यपदज्ञानमन्तरेण स्थवीयसा संस्कारेण सर्वपदविषयमेकस्मरणमुपजन्यते, संस्कारस्यैवैकत्वात् । सोऽयं स्मरणानुभवविषयीकृतवर्णसमूहपदसमूहो वाक्यमित्युच्यते । ततो वाक्यार्थप्रतिपत्तिः । संस्कारस्य च संस्कारान्तरकरणकौशलमवश्यमेषितव्यम्, अन्यथा सर्वत्र क्रियाभ्यासोऽनर्थकः स्यादिति ।
तन्मतखण्डनम्
अत्र वदन्ति, नेयं प्रक्रिया साध्वी, ज्ञानयोगपद्यप्रसङ्गात् । तथा हि चरमपदप्रतिभासानन्तरं यथा पूर्वपदस्मरणं तथा तदैव सङ्केतस्मरणेनापि 20 भवितव्यम् । अनवगतपदार्थस्य हि न वाक्यार्थप्रतीतिः, अस्मृतसङ्केतस्य च न
पदार्थप्रतीतिः । यत्राप्यभ्यस्ते विषये सङ्केतस्मृतिर्न संवेद्यते तत्राप्यविनाभावस्मृतिरिव बलादसौ कल्प्यते, अनवगतपदपदार्थसम्बन्धस्य नारिकेलद्वीपवासिन इव अर्थप्रत्ययाभावात् । सम्बन्धानुभवस्य च पूर्ववृत्तत्वेनेदानों स्मरण
मुखेनोपकारित्वात् । तस्मादन्त्यपदज्ञानानन्तरं पूर्वपदसमयस्मरणयोर्युगपदुत्पा25 दाज्ञानयोगपद्यम् ।