________________
आह्निकम् ] प्रमाणप्रकरणम्
१४३ अथ समयस्मरणानन्तरं पूर्वपदस्मरणमुपेयते तथा तत्स्मृतिकाले पदार्थज्ञानोपजनात् पुनरपि ज्ञानयोगपद्यम् । न च तदा पदार्थज्ञानं नोदेतीति शक्यते वक्तुम्, अविकलतदुपजनकारणसामग्रीसन्निधानात्, प्रतिनायकस्य च तदानीमभावात् । पदार्थज्ञानोत्तरकालं तहि पूर्वपदस्मरणमस्त्विति चेत्, एवं तर्हि चरमपदज्ञानप्रत्यस्तमयादन्त्यपदरहितं वाक्यं स्यात्, अन्त्यपदज्ञानस्य हि सङ्केत- 5 स्मृतिवेलायां विनश्यत्ता, पदार्थज्ञानवेलायां विनाश एव ।
__यत्तु ब्रूयादसंवेद्यमानमपि तदानीमन्त्यपदमस्त्येवेति, स्वस्ति तर्हि न्यायविस्तराय । अपि च तदानीमनुपलभ्यमानेनापि सता किमन्त्यपदेन क्रियते ? पुनरवगमोऽस्य भविष्यतीति चेत् ? स कुतस्त्यः । श्रोत्रस्य विरम्य व्यापारासंवेदनात् । मनसश्च स्वातन्त्र्येण बाह्य विषये सामर्थ्यासम्भवात् । सत्यपि 10 वा पुनस्तदवगमे ज्ञानयोगपद्यानपायात् ।
अपि च पूर्वपदैरर्थशून्यतया शुष्कनीरसतनुभिरन्त्यपदानुभवसमनन्तरं स्मृतैरपि को गुणः ? न हि तथाविधपदस्मरणमर्थप्रत्यायनाङ्गम् । अथ सार्थकानि प्राञ्चि पदानि स्मर्यन्ते ? तहि समयस्मरणपदार्थज्ञानादिकार्यसाङ्कर्यकृतम् अनेकशाखं प्रतिपदं ज्ञानयोगपद्यमापद्यत इत्यसतीयं कल्पना । 15 व्याख्यातमते वर्णानां पदत्ववाक्यत्वप्राप्तिप्रकारः
व्याख्यातारस्तु प्रक्रियान्तरमाचचक्षुः । वर्णानुगमरूपेण तावत् प्रथमपद.. तत्स्मृतिकाले पदार्थज्ञानोपजनादिति । अविकलकारणस्यानुत्पत्तौ हेत्वभावात्, तस्य ह्यत्पत्तौ सङ केतस्मरणोपकृतं पदज्ञानमविकलं कारणमिति ।
स्वस्ति तर्हि न्यायविस्तरायेति। न्यायविस्तरो न्यायशास्त्रम् , तद्धि शब्दा- 20 नित्यत्वप्रतिपादनाय, आप्तोक्तत्वेन वेदप्रामाण्यसमर्थनात्; असंवेद्यमानस्य चास्तित्वे सामान्यादिवन्नित्यत्वापत्तिः। सत्यपि वा पुनः तदवगम इति । पदज्ञानानन्तरपूर्वपदसङ केतस्मरणयोरवश्यमुत्पादात् ।
अथ सार्थकानि स्मर्यन्ते तहि समयस्मरणेति । पदज्ञानानन्तरं हि यदैव सङकेतस्मरणं तदैव पदार्थज्ञानमपि प्राप्नोति, सङ केतस्मरणोत्तरकालन्तु तदभ्युपग- 25 मेऽन्त्यपदनीत्या पदज्ञानस्य विनाशात् पदशून्यः पदार्थप्रत्ययः स्यादिति समयस्मरणपदार्थज्ञानयोः साङ कर्य युगपदुत्पत्तिः ।