________________
आह्निकम् ]
प्रमाणप्रकरणम् व्यापारत्वात्, “सामान्यान्यन्यथासिद्धेविशेषं गमयन्ति हि” इति न्यायाद् । अर्थापत्तिरिति चेत्, किमिदानीमर्थापत्तिगम्यो धर्मः ? न चैतद् युक्तमिष्टं वा । तदिदं सप्तमं प्रमाणमवतरति पदार्था नामेति, तच्च नेष्टम् । अतो न पदार्थनिमित्तको वाक्यार्थप्रत्ययः ।
यदप्युक्तम्, अन्वयव्यतिरेकाभ्यां पदार्थनिमित्तकत्वं वाक्यार्थस्याव- 5 गम्यत इति तत्र पदार्थसंसर्गस्वभावत्वाद् वाक्यार्थस्य । सत्यम्, तत्पूर्वकत्वमिष्यत एव, वाक्यप्रतिपत्तेस्तु न तज्जन्यत्वम्, शब्दव्यापारानुपरमात् । मानसे चापचारे सति पदानामपि ग्रहणं नास्त्येव, यतः क्षणान्तरे समाहितचेताः स वक्ति 'नाहमेतदश्रौषमन्यत्र मे मनोऽभूत् पुनर्ब्रहि' इति । इतरथा हि पदानि स्मृत्वा तदर्थमेवावगच्छेन्न पुनः पृच्छेत् । तस्मात् पदार्थानां ग्रहणमेव तत्र वाक्यार्थावगमे 10 निमित्तम् ।
यदपि पश्यतः श्वेतिमारूपमिति तदपि न किञ्चित् । किं प्रत्यक्षेण शक्लो गौर्गच्छन्न दृश्यते ? स किं शुक्लो गौर्गच्छतीति वाक्यास्यार्थो न भवति ? प्रत्यक्षप्रतिभासात्तु प्रत्यक्षार्थ एवासौ न वाक्यार्थ इत्युच्यते । एवं श्वेतोऽश्वो धावति इति आनुमानिकोऽयं प्रत्ययः पर्वतेऽग्निरितिवत् । 15 बाक्यश्रवणात्तु विना न वाक्यार्थो भवितुमर्हतीत्यलं प्रसङ्गेन । वाक्यादेव वाक्यार्थबोधः
• तस्माद् वर्णेभ्य एव कयाचित् कल्पनया पदवाक्यभावमुपगतेभ्यः पदार्थवाक्यार्थसम्प्रत्यय इति युक्तम् । तस्मात् पदार्थजन्या न भवति वाक्यार्थबुद्धिरिति सिद्धम् । अनुपरतव्यापाराद् वाक्यादेवेयमुद्भभवति ।
20
असत्त्वभूतमेनं हि प्रतिपद्यामहे ततः । इत्यादिना। .
किमिदानीमापत्तिगम्यो धर्म इति । धर्मस्य वाक्यार्थत्वाद् भवन्मते स च प्रमाणान्तरागोचरः शब्दैकप्रमाणगम्य इति यूयं स्थिताः ।
आनुमानिकोऽयं प्रत्यय इति । श्वेतरूपदर्शनादीनामश्वतद्भावभावित्वेनासकृद्
दर्शनात् ।