________________
आह्निकम् ] प्रमाणप्रकरणम्
१३७ पुनरन्यथाप्युपपद्यमाना न तत्र तेषां शक्तिमुपकल्पयितुमर्हति ।
किञ्च, किमेकमेव संस्कारमादधाना वर्णाः पदार्थञ्च वाक्यार्थञ्च बोधयन्ति, भिन्नं वा ? तत्र च
एकयैव हि संस्कृत्या कथं कार्यद्वयं भवेत् ।
न चैषां पूर्वसंस्कारादन्योऽस्तीति प्रतीयते ॥ वाक्यार्थप्रतीतेरेन्यथापि भावान्न नानासंस्कारकल्पनाबीजमस्ति । अपि च पदेषु पूर्ववर्णेषु नातिदूरमतिक्रान्तेषु बुद्धयोपसंहर्तुं शक्येषु घटमानमन्त्यवर्णवेलायामनुसन्धानम्, वाक्येषु पुनरतिचिरतरतिरोहिताक्षरपरम्परानुसन्धानमतिक्लिष्टमदृष्टपूर्वमिति दुर्घटमेतत् । व्यवहितपदोच्चारणे तु दृश्यते वाक्यार्थप्रतीतिः, यत्र पूर्ववर्णानुसन्धानगन्धोऽपि नास्ति । तस्मान्न वर्णा 10 वाक्यार्थबुद्धिहेतवः । अपि च पदार्थं वाक्यार्थञ्च प्रतिपादयन्तो वर्णा युगपत् प्रतिपादयेयुः, क्रमेण वा ? तत्र सकृदुच्चारितानां युगपदुभयकरणमनुपपन्नम्, अशक्यत्वात् । क्रमपक्षेऽपि पूर्वं चेद् वाक्यर्थप्रतिपादनम्, तदयुक्तम्, अनवगतपदार्थस्य वाक्यार्थप्रत्ययादर्शनात् ।
___ अथ पूर्वं पदार्थप्रतिपादनं ततो वाक्यार्थप्रत्यायनम्; हन्त तहि पदार्थ- 15 प्रत्ययादेव वाक्यार्थबुद्धेः सिद्धत्वात् किमिति पुनर्व्यापारान्तरे श्रम आश्रीयते ? तस्मात् पदार्थप्रतिपादनपर्यवसितसामर्थ्यानि पदानि, पदार्थेभ्यस्तु वाक्यार्थप्रत्ययं इति सिद्धम् ।
अपि चान्वयव्यतिरेकाभ्यामेवमवगम्यते 'यत् पदार्थपूर्वको वाक्यार्थः' इति । यो हि मानसादपचाराच्छ्रुतेष्वपि पदेषु पदार्थान्नावगच्छति, नाव- 20 गच्छत्येव वाक्यार्थम् । यस्तु अश्रुतेष्वपि पदेषु प्रमाणान्तरतः पदार्थान् जानीयात्, जानातीवासौ वाक्यार्थम् ।
अन्यथाप्युपपद्यमाना पदार्थेभ्योऽपि ।
एकमेव संस्कारमिति। पूर्ववर्णजनितसंस्कारः । पूर्ववर्णैर्यो जनितः संस्कारः स एव किमुभयं करोतीति ।
न्या० म० १८