________________
5
१३८
15
न्यायमञ्जय
[ षष्ठम्
पश्यतः श्वेतिमारूपं हेषाशब्दञ्च शृण्वतः । खुरविक्षेपशब्दञ्च श्वेतोऽधो धावतीति धीः ॥ दृष्टा वाक्यविनिर्मुक्ता न पदार्थैविना क्वचित् ॥ इति ।
तदेषा वाक्यार्थबुद्धिः पदार्थप्रतीति न व्यभिचरति, व्यभिचरति तु पदप्रतीतिमिति न तत्कार्या भवितुमर्हतीति ।
यदप्युच्यते, प्रत्येकं व्यभिचारात् समुदितानामसाधारण्यात्, न पदार्थानां वाक्यार्थावगतिहेतुत्वमिति, तदप्ययुक्तम् । प्रत्येकं तावद् गमकत्वं नेष्यत एव, समुदितानां त्वसाधारण्यं भवदपि न नः क्षतिकरम् । न ह्येते लिङ्गवत् सम्बन्धग्रहणमपेक्षमाणा अवबोधका यदसाधारण्यं नावकल्पेत, किन्त्वगृहीतसम्बन्धा 10 अपि आकाङ्क्षासन्निधियोग्यतापर्यालोचनया परस्परं संसृज्यन्ते । स एव वाक्यार्थः । संसृष्टः पदार्थः समुदाय:, इतरविशिष्टो वेतर इति । नाप्यशाब्दत्वमित्थं वाक्यार्थप्रतीतेराशङ्कनीयम्, शब्दावगतिमूलत्वेन तस्याः शाब्दत्वात् । शब्दात् पदार्थप्रतिपत्तौ वाक्यार्थप्रतिपत्तिरिति सर्वमनवद्यम् । तदुक्तम्, 'पदानि हि स्वं स्वमर्थमभिधाय निवृत्तव्यापाराणि, अथेदानीमवगताः पदार्था एव वाक्यार्थमवगमयन्ति' इति ।
तन्मतखण्डनम्
अत्राभिधीयते, न पदार्थेभ्यो वाक्यार्थावगतिरपि तु वाक्यादेव । तथा चायं वाक्यार्थं इति प्रसिद्धो न पदार्थार्थः । यथा हि काल्पनिकवर्णसमूहात्मकं पदं पदार्थप्रतिपत्तिमादधाति तथा काल्पनिकपदसमूहात्मकं वाक्यं वाक्यार्थ20 प्रतिपत्तिमाधास्यति ।
ननु पदसमूहात्मकं वाक्यमन्यन्नास्ति किन्तु पदान्येव वाक्यम्, पदानाञ्च स्वार्थे चरितार्थत्वान्न वाक्यार्थसामर्थ्यमित्युक्तम् । नैतद्युक्तम्, पदार्थानामपि चरितार्थत्वात् । क्व तेषां चरितार्थत्वम् ? स्वप्रतिपत्तौ ।
संसृष्टः पदार्थः समुदाय इति संसर्गवाक्याथंपक्षे । इतरविशिष्टो वेतर इति 25 भेदवाक्यार्थवादिमते ।