________________
आह्निकम् ] प्रमाणप्रकरणम्
१३५ प्रसङ्गतः पदानां लिप्यक्षराणाञ्च परमार्थसत्त्वम्
__ अपि च पदानामसत्यत्वे किमर्थ एष तद्व्युत्पत्तावियान् प्रयत्नो वृद्धराधीयते ? असत्यमपि सत्योपायतां प्रतिपद्यत इति चेत्, अदृष्टत्वादलीका हि दंशादयः सत्यमूर्छाहेतवो येऽत्रोदाहृतास्ते तथा न भवन्ति, विषाशङ्काया अपि तत्कार्यहेतुत्वात् । शङ्का हि नाम बुद्धिः । बुद्धिश्च न न कारणम् । 5 न चासती बुद्धिः । __यदपि लिप्यक्षराणामसत्यानां सत्यार्थप्रतिपादकत्वमुच्यते, तदप्यनभिज्ञभाषितम् । रेखास्तावत् स्वरूपतः सत्यः, ताश्च खण्डिकोपाध्यायोपदेशसंस्कृतमतेर्वर्णानुमापिका भवन्ति । तथा सम्बन्धग्रहणाद् रेखानुमितेभ्यश्च वर्णेभ्योऽर्थप्रतिपत्तिरिति नासत्यास्सत्योपायाः । अयं गकार इति तु सामानाधिकरण्य- 10 भ्रमो लिङ्गलिङ्गिनोरभेदोपचारात् । यथा प्रस्थमिताः सक्तवः प्रस्थशब्देनोच्यन्ते, तथा रेखातोऽपि गकारानुमानाद् रेखैव गकार इत्युच्यते । एवमनिष्यमाणे लिप्यनभिज्ञस्यापि ततोऽर्थप्रतिपत्तिः स्यात्, रेखाणामसत्यवर्णात्मनां विद्यमानत्वात्, न चैवमस्ति । तस्माद् वर्णानुमानपुरस्सरैव रेखाभ्योऽर्थावगतिः । अभ्यस्तत्वाद् विषयस्य, सूक्ष्मत्वाच्च कालस्य क्रमो न लक्ष्यते, न त्वन्यथा 15 ततोऽवगतिः । तस्मात् पारमार्थिकत्वात् पदतदर्थानां न निरवयवौ वाक्यवाक्यार्थाविति स्थितम् ।
यत्पुनर्वाक्यभागपदवर्णापह्नववर्त्मना शब्दब्रह्मेवाद्वयमुपदर्शयितुमुपक्रम्यते, तत्र पुरस्तात् सविस्तरं समाधिमभिधास्यामः ।
यत्पुनरवादि वाचस्त्रैविध्यम्, तदपि नानुमन्यन्ते; एकैव वैखरी वाग् 20 वागिति प्रसिद्धा हि ।
___अन्तःसङ्कल्पो वयंते मध्यमा वाक
सेयं बुद्ध्यात्मा नैष वाचः प्रभेदः ।
शङ्काया अपि तत्कार्यहेतुत्वादिति । शङ्काविषेणापि मरणं दृश्यते यतः ।
अभ्यस्तत्वाद् विषयस्येति । अविनाभावस्मृत्यभावेऽपि रेखावगमसमनन्तरं 25 वर्णावगतेः ।