________________
१३४ न्यायमञ्ज
[षष्ठम् तुरगप्रभृतीनान्तु प्रत्येकं व्यभिचारेऽपि बहुप्राणिरूपसामान्यानपायात् तत्तत्कारणमेव धूलिपटलमवगम्यते ।
यदप्यश्वकर्णादाववयवार्थलोपादन्यत्राप्येवमिति कथितम्, तदपि न चतुरस्रम् । अश्वकर्णशब्दो हि क्वचिदर्थप्रकरणवशान्न्यग्भवदवयवशक्तितया तिरस्कृतावयवार्थवस्त्वन्तरव्यक्तौ न सर्वात्मनावयवार्थाभावः, व्यस्तत्वेन सामस्त्येन वा पुनः प्रयोगान्तरे तदर्थसम्प्रत्ययदर्शनादश्वमारोह, कर्णे कुण्डलमिति व्यस्तयोः प्रयोगः, तुरगश्रोत्रे तु प्रतिपिपादयिषितेऽश्वकर्ण इति समस्तप्रयोगोऽपि तदर्थापरित्यागी दृश्यत इति न सर्वात्मना निरर्थका भागाः । .
यत् पुनरन्वाख्यानविसंवादात् प्रकृतिप्रत्ययविभागनियमो नावकल्पत 10 इति, एतदपि न युक्तम्, आप्ततरोक्तीनां प्रामाण्यात् त्रिमुनिव्याकरणमिति
पाणिनिमतमेव हि प्रकृतिप्रत्ययविभागमवितथं प्रत्येषामः । कियत्यपि चांशे प्रायेण सर्वेषामन्वाख्यातणामविवादः । विकरणादिविसंवादमात्रं त्वकिञ्चित्करम् । अतः पारमार्थिकत्वात् प्रकृतिप्रत्ययांशयोर्न कल्पनामात्रेण पृथक्करणम् ।
यदप्यवणि, वर्णसामान्यादपि भागज्ञानं दुर्घटं कालेनदन्तिनागा इति, 15 तदप्यसारम्, स्वरस्मरणादीनां पदभेदावगमोपायानां सम्भवात् । सराम
इत्याख्यातस्यान्यत् स्वरादिरूपं नाम्नोऽन्यत् । नामत्वेऽपि स इति राम इति च द्वे पदे, तयोरन्यद्रूपम् । सह रामेण वर्तत इत्येकपदेऽप्यन्यद्रूपमभियोगविशेषवतां सर्वं सुभगमिति नाशक्यः पदविभागपरिच्छेदः ।
___ यदपि दध्यत्र मध्वत्रेति तथाविधपदरूपादर्शनेऽपि तदर्थसम्प्रत्यय इत्युक्तम्, 20 सोऽपि न दोषः, यतस्त एवैते पदे ईषद्विकृते तत्प्रत्यभिज्ञानाच्चेति केचित् ।
अथवा इगन्तदधिमधुपदवद् यणन्तयोरपि विषयान्तरे साधुत्वात्, तथैव तद्विधाद् व्युत्पत्तुर्यणन्तेऽपि पदेऽर्थप्रतिपादके भविष्यत इत्यलमेवंप्रायः कदाशाव्याहृतैः।
सराम इति । आख्यातपक्षे प्रत्ययस्वरेणान्तोदात्तः पदद्वयपक्षे स इति प्रातिपदिकस्वरेणोदात्तो राम इति च “कर्षात्वतोञोऽन्त उदात्तः" इत्यन्तोदात्तः । सह रामया वर्तत इति तु बहुव्रीहौ पूर्वपदप्रकृतिस्वरेणाद्युदात्तः ।