________________
आह्निकम् ] प्रमाणप्रकरणम्
१३३ यत् पुनरवादि, वाक्यस्येव पदानि पदानामिव वर्णा वर्णानामप्यवयवान्तराणि स्युरिति तदिदमपूर्वं पाण्डित्यम् । न हि घटः सावयव इति परमाणुभिरपि सावयवैर्भवितव्यम् । उपलब्ध्यनुपलब्धी हि वस्तूनां व्यवस्थापिके । यद् यथोपलभ्यते, तत् तथा भवति, यद् यथा नोपलभ्यते, तत् तथा न भवति । वाक्यपदयोश्च भागा उपलभ्यन्ते, न वर्णानाम् । तथा ह्युक्तमेतत्,
अल्पीयसापि यत्नेन शब्दमुच्चारितं मतिः ।
यदि वा नैव गृह्णाति वर्णं वा सकलं स्फुटम् ॥ इति । तस्माद् वालिशचोदितमिदं वर्णस्याप्यवयवा भवन्तु, पदवाक्ययोरपि वा मा भूवन्निति । अतश्च सावयवौ वाक्यवाक्यार्थौ पदोपजननापायाभ्यां तदर्थोपजननापायदर्शनादनयैव युक्त्या पदभागा अपि प्रकृतिप्रत्ययादयस्तात्त्विका इत्यवगन्तव्यम्, न कल्पनामात्रप्रतिष्ठाः । वृक्षं वृक्षणेत्यत्र प्रकृत्यर्थानुगमे प्रत्ययार्थो भिद्यते, वृक्षं घटमिति प्रत्ययार्थानुगमे प्रकृत्यर्थो भिद्यते, तत्र योऽर्थो यं शब्दमनुगच्छति, स तस्यार्थ इत्यवसीयते, तत् कथमसत्या भागाः ? '
यत् पुनः कूपसूपयूपादौ सत्यपि वर्णानुगमेऽर्थानुगमो न दृश्यते, तेन चाकारणमर्थप्रतीतेवर्णानुगम इत्युक्तम्, तदयुक्तम् ; यतो नान्वयव्यतिरेकाभ्या- 15 मनुत्पन्ना प्रतीतिरुत्पाद्यते, येन कूपादौ तदुत्पादनमाशङ्कयेत, सिद्धायान्तु प्रतीतौ वाचकभागेयत्तानियमपरिच्छेदेऽनयोर्व्यापारः, न चैकत्र वर्णानुगमेऽनुगमो दृष्ट इत्यन्यत्रादृश्यमानोऽपि हठादापादयितुं युक्तः । रेणुपटलानुगतपिपीलिकापङ्क्तिद्वारकव्यभिचारोद्भावनमपि न पेशलम्, पांसुपटलविकलपिपीलिकापङ्क्तिदर्शनेन तस्यास्तत्प्रतीतिकारित्वाभावनिश्चयात् । करिकरभ- 20
10
यत् पुनः कूपसूपेति आह च
यत् कूपसूपयूपेषु समानेऽप्यूपबन्धने । नास्त्यर्थानुगमः कश्चित् तन्न शब्दोऽपराध्यति ॥ नान्वयव्यतिरेकाभ्यामपूर्वार्थोऽवधार्यते । सङ्कीर्णेऽवगते ह्यर्थे ताभ्यां शक्तिनियम्यते ।। इति ॥
25