________________
10E
१३२ न्यायमञ्जयां
[ षष्ठम् चित्रादिबुद्धयस्तहि दृष्टान्ता इति चेत्, बाढम्, वाक्यार्थबुद्धिरपि निर्भागेष्यत एवास्माभिः, बुद्धीनां निरंशत्वेन सर्वासामनवयवत्वात् । बुद्धिविषयीकृतस्त्वर्थो दृष्टान्तदार्टान्तिकयोः सावयव एव । तस्मान्न निर्भागौ वाक्यवाक्यार्थाविति युक्तम् ।
यदप्यभ्यधायि वृद्धव्यवहारेण सम्बन्धबुद्धिर्वाक्यवाक्यार्थयोरेव, न पदतदर्थयोः, पदेन व्यवहाराभावादिति; तदप्यसाधु, वाक्यादपि व्युत्पत्तिर्भवन्ती पदार्थपर्यन्ता भवतीति । एवं हि पदतदर्थसंस्कृतमतेरभिनवविरचितादपि वाक्याद् वाक्यार्थप्रतीतिरुपपत्स्यते । तदावापोद्वापपरतन्त्रवैचित्र्येण वाक्यानामानन्त्यादशक्या प्रतिवाक्यं व्युत्पत्तिः, सापि नापेक्षिष्यते, इतरथा हि सा अवश्यमपेक्ष्येत।
यत्तु केवलं पदं न प्रयुज्यत इति तदसत्यमिति, तदप्यसत्, महावाक्यस्थानेऽवान्तरवाक्यं न प्रयुज्यत इति तदप्यसत्यं स्यात् । स्वार्थे तत् प्रयुज्यत इति चेत्, पदमपि स्वार्थे क्वचित् प्रयुज्यत एव। यत्र पदानामर्थोऽर्थप्रक
रणादिना लभ्यते, तत्र यावदप्राप्तं पदमेव केवलमुच्चारयन्ति । ग्रन्थग्रहणा15 वसरेषु च स्वरूपावधारणमपि फलवद् वर्णानाम्, मा वा फलवत्त्वं पदवर्णानां
भूत्, तथापि रथावयवानामिव रथकार्येष्वपर्याप्तशक्तीनामपि स्वरूपसत्त्वमनिवार्यम् । कार्यान्तराय रथाद् रथावयवाः प्रभवन्तीति चेत्, पदवर्णा अपि कार्यान्तरे प्रभविष्यन्ति । रथकायैकदेशमात्रां कामपि रथावयवाः कुर्वन्तीति ।
तदुच्यते, पदान्यपि वाक्यकार्यैकदेशं कमपि कुर्वन्त्येव । वर्णा अपि 20 केचिदर्थवन्तो भवन्त्येवेति तस्मान्नासन्तः पदवर्णाः ।
पदार्थपर्यन्ता भवति । आवापोद्वापकल्पनया 'रक्तः पटो भवति' इति महावाक्यम् , रक्ताख्येन गुणेन पटस्य सम्बन्धप्रतिपादनार्थम् ; अवान्तरवाक्यन्तु 'पटो भवति' इति; स्वार्थश्चास्य पटसत्तासम्बन्धलक्षण इति ।
यत्र पदान्तराणामर्थ इति । यथा संव्रियतामपात्रियतामित्यस्यार्थेऽर्थप्रकरणादिलभ्ये 52 द्वारमिति केवलं प्रयुज्यत इति । कार्यान्तराय रथावयवा इति । कार्यान्तरं रथादन्यत्
काष्ठमात्रसाध्यं दर्शनं वा। वर्णा अपि कार्यान्तर इति । यथा अकारादयो विष्ण्वादिवाचकाः । वर्णा अपि केचिदिति । पदे ये वर्णाः प्रकृतिप्रत्ययादयः स्वार्थेन चार्थवन्तस्ते ।