________________
आह्निकम् ] प्रमाणप्रकरणम्
११७ सम्प्रत्ययो दृश्यते । तस्मादपि न पारमार्थिकः पदवर्णविभागः । निरस्तावयवं वाक्यं तथाविधस्यैव वाक्यार्थस्य वाचकमिति सिद्धम् । स्फोटात्मकत्वं शब्दब्रह्मणः
___ ननु यथा पदेषु वर्णा न सन्ति, वाक्येषु पदानि न सन्ति, तथा महावाक्येष्ववान्तरवाक्यान्यपि न स्युः, ततः किं महावाक्यान्यपि प्रकरणापेक्षया 5 न तात्त्विकानि स्युः, ततः किं प्रकरणान्यपि शास्त्रापेक्षया न स्युः, ततोऽपि किमेकमेवेदं शास्त्रतत्त्वमविभागमद्वयमापतति ?
उच्यते । यदि तत्त्वं पृच्छसि, बुद्धयसे वा, साधो ! शब्दब्रह्मैवेदमद्वयमनाद्यविद्यावासनोपप्लवमानभेदमर्थभावेन विवर्त्तते, न तु वाचकाद् विभक्तं वाच्यमपि नाम किञ्चिदस्ति । तस्मात् काल्पनिक एव वाच्यवाचकविभागोऽ- 10 यम्, अविद्यैव विद्योपाय इत्याश्रीयते । वाग्रूपता तत्त्वम्, सर्वत्र प्रत्यये
अनाद्यविद्यावासनेति । अविद्यावशाद्धि वर्णपदावान्तरवाक्यमहावाक्यप्रविभाग इत्यनेन चैतदुक्तं भवति एकमेवेदं त्रयीरूपं शब्दब्रह्म परब्रह्मप्राप्त्युपायः, तस्य यदिदं विभागेन चातुराश्रम्यप्रतिपादनं तदसत्यम्,मातृमोदकन्यायेन हि तत्तद्वस्तूद्देशेन समीहावतां प्राणिनां बाह्योपायनिषेधेन पश्वर्थिनामिव चित्रादि दर्शयद् बाह्यक्षोभनिवर्तनेन शनैः 15 शनैः शान्ततां दर्शयत् परं क्षेमं दर्शयतीति । तदुक्तम्,
त्रयोरूपेण तज्ज्योतिः प्रथमं परिवर्तते । पृथक् तीर्थप्रवादेषु दृष्टिभेदनिबन्धनम् ॥ शान्तं विद्यात्मकं ब्रह्म तदु हैतदविद्यया ।
तया ग्रस्तमिवाजस्रं या निर्वक्तुं न शक्यते ।। इत्यादि । 20 अर्थभावेन विवर्तत इति । तथा च आह,
शब्दस्य परिणामोऽयमित्याम्नायविदो विदुः । छन्दोभ्य एव प्रथममेतद् विश्वं व्यवर्तत ॥ तस्मादाकृतिगोत्रस्थाद् व्यक्तिग्रामा विकारिणः ।
मारुतादिव जायन्ते वृष्टिमन्तो बलाहकाः ॥ इत्यादि । 25 अविद्यैव विद्योपाय इति । अनेन द्वारेण प्राङ नीत्या विद्याधिगमस्य सम्भवात् । तदुक्तम् “अतत्त्वे वर्त्मनि स्थित्वा ततस्तत्त्वं प्रकाशते” इति ? सर्वत्र प्रत्यये तदनपाया