________________
११६
न्यायमञ्ज
[षष्ठम् ननु प्रकृतिप्रत्ययाद्यंशा अपि परमार्थसन्त एव, तथा प्रतिभासात्, तदर्थप्रत्ययहेतुत्वाच्च । नैतदेवम् । अन्वाख्यानभेदेन तेषां स्वरूपेणेयत्तानिश्चयानुपपत्तेः । भवतीत्यत्र भूशब्दः प्रकृतिः क्वचिदन्वाख्यायते क्वचिद् भवशब्दः ।
प्रत्ययादेशागमगुणवृद्धिवर्णलोपाद्यन्वाख्यानविसंवादात् कः पारमार्थिकः प्रकृति5 प्रत्ययविभागः ? कल्पनामात्रन्त्वेतत् ‘इयं प्रकृतिरेष प्रत्ययः' इति ।
एवं पदार्थानामपि वाक्यार्थपरिकल्पनयैवापोद्धारः । तदुक्तम्, अपोद्धृत्त्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत् ॥(वा०प० ३।१।१) इति ।
अपि च पारमार्थिकत्वे पदानां नियतमविसंवादि रूपं प्रतीयेत, विसंवादि तु तत् । नामाख्यातसाधारणवर्णसन्निवेशदर्शनान्न नियतं तेषां रूपम्, 10 अतः काल्पनिकमेव तन्न वास्तवम् । न च निश्चेतुमपि तत् पार्यते । “काले
नदन्ति नागाः' इत्यत्र हि कीदृशः पदविभागः ? अर्थद्वयोपपत्तेः, उभयत्र च वर्णतुल्यत्वात् । किं 'कालेन कृष्णेन दन्तिना हस्तिना अगास्त्वम्' इत्येवमेतानि पदानि व्यवस्थाप्यन्ताम्, अथ 'काले समये नदन्ति शब्दायन्ते नागाः करिणः फणिनो वा' इति । तस्मादनियमान्न पदतदर्थविभागः पारमार्थिकः ।
अथ प्रथमप्रतिपन्नवाक्यार्थानुसारेण पदतदर्थविभागो व्यवस्थाप्यते ? तर्हि किं तेन तदानी व्यवस्थापितेन, वाक्यार्थस्य प्रथममेव प्रतिपन्नत्वात् ।
किञ्च दध्यत्र मध्वत्रेति दधिमधुपदयोरिकारोकारयोरदर्शनेऽपि तदर्थ
प्रत्ययादेशेति । प्रत्ययविसंवादः कचिल्लकारः प्रत्ययः, अन्यत्र त्यादय इत्येवमन्यत्रापि।
वाक्यार्थकल्पनयैवेति। कल्पनया असतामप्यनपोद्धारे वाक्यार्थस्य प्रति. पादयितुमशक्यत्वादसतामपि तेषां कल्पनयोद्धतानां रेखागवयादीनामिव सत्यार्थप्रतिपादकत्वम् । अपोद्धृत्यैव वाक्येभ्य इत्यस्य पूर्वमधंम् – “पदं कैश्चिद् द्विधा भिन्नं चतुर्धा पञ्चधापि वा।"
अथ प्रथमप्रतिपन्नेति । प्रकरणादिवशेन 'काले नदन्ति नागाः' इत्यस्मादुच्चारि25 ताद् विशिष्टार्थप्रतिपत्तिर्भवत्येव, भोजनादिप्रस्तावे सैन्धवमानयेति प्रतिपत्तिवत् ।