________________
आह्निकम् | प्रमाणप्रकरणम्
११५ केवलस्य दृश्यते, व्यवहारानङ्गत्वाद् । वाक्यन्तु प्रयोगार्हमिति तत्रैव व्युत्पत्तिः, तत एवार्थसम्प्रत्ययः, अवयवप्रतिभासस्तु भ्रममात्रम्, अर्थोऽपि वाक्यस्यैक एव नरसिंहाकारः । जात्यन्तरं हि नरसिंहो नाम, तत्र न नरार्थो नापि सिंहार्थः । ___ एवं पदार्थेभ्योऽन्य एव वाक्यार्थः पानकादिवत् । यथा पानकं शर्करा- 5 नागकेसरमरिचादिभ्योऽर्थान्तरमेव, यथा च सिन्दूरहरिताललाक्षादिभ्योऽ
र्थान्तरमेव चित्रम्, यथा वा षड्जर्षभगान्धारधैवतादिभ्योऽर्थान्तरमेव ग्रामरागस्तथा पदेभ्यो वाक्यं पदार्थेभ्यो वाक्यार्थः । वाक्यांशानां काल्पनिकत्वम्
कथं तर्हि तदंशावगम इति चेत् ? कल्पनामानं तत्, नासौ परमार्थः । 10 तच्छब्दानुगमे तदर्थानुगमदर्शनात् पारमार्थिकत्वं भागानामिति चेत्, न, कूपसूपयूपानामेकाक्षराननुगमेऽप्यर्थानुगमाभावात् । न च केवलानुगममात्रेण तत्कारणभावो वक्तुं शक्यः, रेणुपटलानुगामितया करितुरगादिवत् पिपीलिकापङ्क्तेरपि दृश्यमानायास्तत्कारणत्वप्रसङ्गात् । तस्मात् प्रकृतिप्रत्ययांशवदसत्पदार्थपरिकल्पनं वाक्यार्थावगमोपायतयाश्रीयते, न त्वर्थस्तदीयस्तत्राश्व- 15 कर्णादिवदुपलभ्यते । असत्यमपि सत्योपायतां प्रतिपद्यमानं दृश्यते । अलीका हि दंशादयः सत्यमरणकारणं भवन्ति, लिप्यक्षराणि चासत्यान्येव सत्यार्थप्रतिपत्तिमादधति । स्वरूपसत्यानि तानीति चेत्, न, रेखारूपतया तेषामर्थाप्रतिपादकत्वात् । गकारोऽयमित्येवं गृह्यमाणा रेखा अर्थप्रत्ययहेतवः । ता येन रूपेण सत्यास्तेन नार्थप्रतिपादिकाः, येन चार्थप्रतिपादिकास्तेन न 20 सत्या इति ।
अर्थान्तरमेव ग्रामराग इति । ग्रामरागो यत्रांशतया षड्जादयः स्वराः स्थिताः।
करितुरगादिवदिति । यथा सत्सु करितुरगादिषु गच्छत्सु रेणुपटलस्योद्गमदर्शनात् तत्कारणता कल्प्यते, एवं पिपीलिकापङ्क्तिरपि कदाचिद् रेणुपटलोद्गम- 25 पूर्वभाविनी दृश्यत इति तस्या अपि तत्कारणत्वप्रसङ्गः। अश्वकर्णादिवदिति। अश्वकर्णाख्या ओषधिनं तत्राश्वार्थः कश्चिन्नापि कर्णार्थ इति ।