________________
5
10
15
न्यायमञ्जय
[ षष्ठंम्
नासावर्थप्रतीतिहेतुरतो न प्रमाणम् । यश्चार्थप्रतीतिहेतुः स्फोटात्मा शब्दस्तस्य नानित्यत्वं न चाप्तप्रणीतत्वमित्यस्थाने नैयायिका : क्लिष्टा भवेयुः । तस्मादनित्यानां वर्णानामेव वाचकत्वं प्रतिष्ठापनीयम् पराकरणीयश्च स्फोट इति ।
25
१०८
तदुच्यते । गकारादिवर्णावगमे सत्यर्थप्रतीतेर्भावात् तदभावे चाभावात् तेषामेवार्थप्रत्यायनसामर्थ्यम् । त एव च श्रवणकरणकावगमगोचरतया शब्दव्यपदेशभाज इति न प्रतीत्यनुपारूढः स्फोटो नाम शब्दः कश्चित् प्रत्यक्षानुमानातीतः परिकल्पनीयः ।
वर्णानां नार्थप्रत्यायकत्वम्
आह, कथमेवं भविष्यति ? दूरापेता इमे मनोरथाः । कुतो वर्णानामर्थ - प्रत्यायकत्वम् ? ते हि वर्णा गकारादयोऽर्थं प्रतिपादयन्तः समस्ताः प्रतिपादयेयुः व्यस्ता वा । न तावद् व्यस्ताः, एकैकवर्णाकर्णने सत्यप्यर्थंप्रतीतेरनुत्पादात् । सामस्त्यं वर्णानां नास्त्येव । तद्धि सत्तामात्रेण वा स्यात् प्रतीयमानत्वेन वा । नैयायिकपक्षे तावत् सत्तया यौगपद्यमविद्यमानम्, आशुविनाशिनः शब्दस्य दर्शितत्वात् ।
अथापि मीमांसकमतेन नित्यः शब्द इष्यते, तत्रापि सत्तया यौगपद्यस्य सकलवर्णसाधारणत्वात् केन वर्णसमुदायेन कोऽर्थः प्रत्याय्येतेति नावधार्यते ।
अथोच्यते, न चक्षुरादीनामिव वर्णानां कारकत्वम्, येनागृहीतानामेव सतां यौगपद्यमात्रमर्थप्रत्ययनाङ्गं स्यात्; ज्ञापकत्वात् तेषां गृहीतानां सतां 20 धूमादिवत् प्रत्यायकत्वमिति प्रतीतावेव सामस्त्यमुपयुज्यत इति ।
एतदप्यघटमानम् । प्रतीतिसामस्त्यं हि किमेकवक्तृप्रयुक्तानां वर्णानामुत नानापुरुषभाषितानाम् । तत्रानेकपुरुषभाषितानां कोलाहलस्वभावत्वेन स्वरूपभेद एव दुरवगम इति कस्य सामस्त्यमसामस्त्यं वा चिन्त्येत । सत्यपि न चक्षुरादीनामिव कारकत्वमिति । चक्षुरादीनि ह्यगृहीतसङ्गतीनि यतः प्रमां जनयन्ति अतस्तान्यर्थस्य न ज्ञापकानीत्युच्यन्ते ज्ञापकधर्मविरहात् अपि तु अर्थप्रतीतेनानीति ।