________________
आह्निकम् ] प्रमाणप्रकरणम्
१०९ वा तथाविधे सामस्त्ये नास्त्येवार्थप्रतीतिः । एकवक्तृप्रयुक्तानान्तु प्रयत्नस्थानकरणक्रमापरित्यागादवश्यम्भावी क्रमः, क्रमे च सत्येकैकवर्णकरणिकार्थप्रतीतिः प्राप्नोति, न चासौ दृश्यत इति व्यस्तसमस्तविकल्पानुपपत्तेर्न वर्णा वाचकाः । वर्णविषया अपि बुद्धयस्तथैव विकल्पनीयाः । ता अपि न युगपत् सम्भवन्ति, क्रमे च सत्येकैकवर्णबुद्धेरर्थसम्प्रत्ययः प्रसज्यत इति । ___ यदप्युच्यते, पूर्वपूर्ववर्णजनितसंस्कारसहितोऽन्त्यवर्णः प्रत्यायक इति, तदप्ययुक्तम् । संस्कारो हि नाम यदनुभवजनितस्तद्विषयमेव स्मरणमुपजनयति, न पुनरर्थान्तरविषयं ज्ञानमिति । स्मृतिद्वारेण तीर्थप्रत्यायकोऽसौ भविष्यतीति चेत्, एतदपि नास्ति, ज्ञानयोगपद्यप्रसङ्गात्, अन्त्यवर्णज्ञानानन्तरं हि पूर्ववर्णस्मरणमिव समयस्मरणमपि तदैवापतति, ततश्च ज्ञानयोगपद्यम् । 10 न च क्रमोत्पादे किञ्चित् कारणमुत्पश्यामः । अथापि तेन क्रमेण भवेतां तथापि तदानीमन्त्यवर्णज्ञानमुपरतमिति कस्य साहायकं पूर्ववर्णस्मृतिर्विदधातीति । एतच्चानेकपूर्ववर्णविषयामेकां स्मृतिमभ्युपगम्योक्तम् । न पुनरेका सर्ववर्णगोचरा स्मृतिः । कुतः
भिन्नोपलम्भसम्भूतवासनाभेदनिर्मिताः ।
भवेयुः स्मृतयो भिन्ना न त्वेकानेकगोचरा ॥ अथ वदेत् सङ्कलनाज्ञानमेकं सदसद्वर्णगोचरं भविष्यति तदुपारूढाश्च वर्णा अर्थं प्रत्याययिष्यन्तीति, तदपि दुराशामात्रम्, तथाविधज्ञानोत्पत्तौ कारणाभावात् । न चेन्द्रियमतीतवर्णग्रहणसमर्थम्, न संस्कारो वर्तमानग्राही भवति, न च युगपदिन्द्रियं संस्कारश्चेमा बुद्धि जनयतः, संस्कारस्य सहचर- 20 दर्शनाद्याहितप्रबोधस्य सतः स्मरणमात्रजन्मनि निर्मातसामर्थ्यस्येन्द्रियेण व्यापाराभावात् । तस्मान्न वर्णा वाचकाः ।
क्रमेण ते स्मरणे इति । एकस्य स्मरणस्योत्पादकाले ज्ञानस्य ज्ञानान्तरविरोधित्वादन्त्यवर्णज्ञानस्य विनश्यत्ता द्वितीयस्मरणोत्पादकाले तस्य विनाश इति ।
सङ्कलनाज्ञानमिति । क्रमगृहीतानामेकस्मिन्ननन्तरकालभाविज्ञाने सङ्कलितानां 25 समुच्चितानां प्रतिभासनं सङ्कलनाज्ञानं शतादिसमुच्चयज्ञानवत् ।