________________
षष्ठमाह्निकम् पदस्वरूपनिरूपणार्थ प्रश्नः
ननु नाद्यापि शब्दस्य निरणायि प्रमाणता ।
बीजं पदार्थवाक्यार्थबुद्धेर्न हि निरूपितम् ।। उच्यते। किमत्र निरूपणीयम् ? यदनन्तरं यद् भवति तत् तस्य निमित्तम् । पदवाक्यश्रवणे च सति पदार्थवाक्यार्थसम्प्रत्ययो भवति इति ते एव तत्र 5 निमित्तम् ।
किं पुनरिदं पदं नाम किञ्च वाक्यमिति । उक्तमत्र वर्णसमूहः पदम, पदसमूहो वाक्यमिति । स्फोटवादविचारः ___ नन्वेतदेव न क्षमन्ते । न हि वर्णानां समूहः कश्चिदस्ति वास्तवस्तेन 10 कुतस्तत्समूहः पदं भविष्यति । तदभावाच्च नतरां पदसमूहो वाक्यमवकल्पते । न च वर्णानां व्यस्तसमस्तविकल्पोपहतत्वेन वाचकत्वमुपपद्यते, तस्मादन्य एव स्फोटात्मा शब्दोऽर्थप्रतिपादक इति प्रतिजानते । ____ नन्वेवमस्तु स्फोटोऽन्य एवार्थप्रतिपादको भवतु, का क्षतिर्नैयायिकानाम् ? कथं न क्षतिः ? आप्तप्रणीतत्वेन हि शब्दस्य प्रामाण्यं तैरुक्तम् । स्फोटस्य च 15 नित्यत्वेन आप्तप्रणोतत्वम्, अतश्च यस्यानित्यत्वं वर्णात्मनः शब्दस्य साधितम्,
बीजं पदार्थवाक्यार्थबुद्धेः पदवाक्ये ।
व्यस्तसमस्तविकल्पोपहतत्वेनेति । व्यस्तानां प्रत्येकवाचकत्व इतरवर्णोच्चारणवैफल्यप्रसङ्गः। सामस्त्यन्तु नास्ति क्रमोपलभ्यमानानामिति वक्ष्यति । स्फोटात्मा अभिव्यञ्जकै दैः स्फुटीक्रियते व्यक्ति नीयत इति स्फोट इति नाम्ना व्यपदेश्यः।
स्फोटस्य च नित्यत्वेनेति । स ह्यक्रमो निरवयवश्व नित्य एव कल्पयितुं शक्यते; अर्थप्रतीत्या हि स कल्प्यते न चानित्यादर्थप्रतीतिरुपपद्यते सङ्केतकालावगतस्येदानीन्तनस्य चान्यत्वात् ; स च स्थित एव केवलमभिव्यज्यते ध्वनिभिरिति ।
20