________________
न्यायमञ्जऱ्यां
[ पञ्चमम् • विधेरेष स्वभावश्चेदायुष्मन् ! साधु बुध्यसे ।
भाट्टैः किमपराद्धं तैनित्येऽपि फलवादिभिः ।। अधिकार्यनुपादेयविशेषणविशेषितः । जीवन् वा स्वर्गकामो वा समानः काम्यनित्ययोः ।। विधिवीर्यस्वभावस्तु कृमेरपि तथाविधः ।
सप्रत्ययप्रेरकतां विधिर्नोपैति निष्फलः ॥ ननु कामाधिकारे स्वर्गः श्रूयते नित्याधिकारे त्वसौ न श्रूयते, अश्रूयमाणः कस्यानुरोधेन कल्प्यते ? विधेरेवेति ब्रूमः । स्वर्गेन श्रुतेनापि किं. करि
ष्यति यद्यसौ विधिना नापेक्ष्यते, घृतकुल्या अस्य भवन्तीत्यादिवदश्रुतोऽपि 10 चासौ विधिनाकृष्यत एव । तस्माद् विधिरत्र प्रमाणं न श्रवणाश्रवणे इति काम्यवन्नित्येऽपि फलमभ्युपगन्तव्यम्, न वा क्वचिदपीति ।
प्रतिषेधाधिकारेऽपि विधिवृत्तपरीक्षया ।
एवं नरकपातादिफलयोगो न दुर्भणः ।। येन हि दुर्विषहक्लेशद्वेषकलुषितमनसा ब्राह्मणहननं सुखसाधनमिति 15 कर्त्तव्यमिति गृहीतम्, निरर्गलरागरसिकेन सुरापानं सुखसाधनमिति गृहीतम्,
स ततो विधिना वार्यते यदि तदसुखसाधनमिति ज्ञाप्यते । तस्मान्नित्येषु प्रत्यवायपरिहार इव उपात्तदुरितक्षय एव वा प्रतिषिध्यमानेषु कर्मसु नरकपातः
नित्येऽपि फलवादिभिरिति । प्रत्यवायपरिहारं ये फलमिच्छन्ति ।
घृतकुल्या अस्य भवन्तोत्यादिवदिति। यथा 'स्वाध्यायोऽध्येतव्यः' इत्यस्य 2n दृष्टेनार्थावबोधलक्षणेन फलेन फलवत्त्वाद् विधेः “यदृचोऽधीते घृतकुल्या भवन्ति"
इत्येवमादोनामर्थवादमात्रतयैवान्वयः, न पुनः फलतया विधिस्तान्यपेक्षते । अश्रुतोऽपि चासाववबोधादिः ।
उपात्तदुरितक्षय एवेति । प्रत्यवायस्य परिहारोऽनुत्पत्तिः प्रागभावस्तस्य नित्यत्वात् साध्यत्वानुपपत्तिः, अत उपात्तदुरितक्ष यो नित्यानां फलमिति केचित् । अन्ये तूभयमेव 25 फलमिति । अपरे तु येषामकरणे प्रत्यवायः श्रूयते तेषां करणात् प्रत्यवायपरिहारः, येषा
न्त्वकरणात् प्रत्यवायश्रुतिर्नास्ति तेषां करणादुपात्तदुरितक्षयः फलमित्याहुः। उपात्तस्य सञ्चितस्य दुरितस्य क्षयः प्रध्वंसः ।