________________
विदः ।।
आह्निकम् ]
प्रमाणप्रकरणम् फलमित्यभ्युपगमनीयम् । इतरथा ह्यानर्थविवेको न सिद्ध्यति ।
एवञ्च ब्रह्महत्यादेरपि नैवास्त्यधर्मता । किं पुनः श्येनवज्रादेरित्यर्थग्रहणं वृथा । करणांशेऽपि लिप्सातः प्रवृत्तिर्यधुपेयते । इतिकर्तव्यतांशे तु शास्त्राद् यदि तदप्यसत् ॥ न हि तत्करणं शुद्धं स्वफलायोपकल्पते ।
सेतिकर्तव्यताकं हि करणं करणं विदुः ।। अवान्तरविभाग एवैष करणेतिकर्तव्यतालक्षणः, सकलाङ्गोपवृंहितस्वरूपस्तु भावार्थः काम्यमानोपायतां प्रतिपद्यते नैकेनाप्यंशेन न्यूनः । अत एव काम्यानां कर्मणां सर्वाङ्गोपसंहारेण प्रयोगमिच्छन्ति । तस्मात् करणवदिति- 10 कर्तव्यतायामपि लिप्सात एव प्रवृत्तिः स्यात् ।।
उभयत्रापि लिप्सातः सति चैवं प्रवर्तने ।
अग्नीषोमीयहिंसादेः श्येनादिवदधर्मता ॥ ___ यदप्युक्त कामाधिकारेषु काम्यमानभावार्थयोरुपायोपेयभावमात्रप्रतिपादनपर्यवसितो विधिव्यापार इति तदपि न सम्यक्, विधिपुरुषयोहि प्रेर्यप्रेरक- 15 लक्षणः सम्बन्धः । तत्र यागादयो विषयत्वेन प्रतीयन्ते नेष्यमाणोपायत्वेन । साध्यसाधनमात्रप्रतिपादनपर्यवसितव्यापारस्तु विधिविनियोगपर एव स्यात्, ततश्चाप्रवृत्तप्रवर्तकत्वं नाम निजं रूपं जह्यात् ।
इतरथा होति। ब्रह्महत्यादेरनिष्टसाधनत्वानभ्युपगमेन । “कोऽर्थः ? योऽभ्युदयाय ज्योतिष्टोमादिः, कोऽनर्थ ? यः प्रत्यवायाय श्पेनो वज्र इषुरित्येवमादिः' इति 20 योऽर्थानर्थविवेकः।
ब्रह्महत्यादेः साक्षाद्धिसारूपस्य । श्येनवज्रादेः फलद्वारेण, न साक्षात् ।
अत एव काम्यानां कर्मणामिति । यत एव सकलाङ गोपबृंहितस्वरूपो भावार्थः काम्यमानोपायतां प्रतिपद्यते सर्वेषामड गानामुपसंहारेणानुष्ठानसम्पत्त्या । ____ विनियोगपर एव स्यादिति । विनियोग ऐदमर्थ्यम् , यज्ञात् स्वर्गो भवती 25 त्यादि।