________________
आह्निकम् ]
प्रमाणप्रकरणम् फलसिद्धिर्भवति विषयाद्यनुबन्धावच्छिन्नो ह्यसावेवानुष्ठेयः । तत्र यथा तेन तेन कारकचक्रेण क्रियाकलापेन विना सम्पत्तिमलभमानः तत्तदाक्षिपति तथाधिकारानुबन्धवन्ध्योऽपि नासौ सम्पत्तिमधिगच्छतीति तमप्याक्षिपति । यश्चायमधिकारानुबन्धः स एवायं फलाक्षेपः, न तु विधेः फलापेक्षितेत्युक्तम् । एतदयुक्तम् ।
5 यो हि येन विना कामं न सिद्ध्येत् स तमाक्षिपेत् । नियोज्यमात्राक्षेपे तु नियोगो न फलात्मकः ।। नियोज्यश्चाण्डालस्पर्शनेनेव स्वर्गकामनोत्पादमात्रेण नियोज्यतां प्रतिपन्न इति कथं नियोज्याक्षेप एव फलाक्षेपः ?
ननु च स्वर्गकामोऽत्र नियोज्यो नान्यथा भवेत् ।
यदि स्वर्गस्य सम्पत्ति नाधिगच्छेत् स्वकर्मणः ।। नैतदेवम्
नरेच्छामात्रमेवेदं न शब्दस्त्वियति क्षमः ।
नियोज्यः स्वर्गकामो हि भवेज्जीवनवानिव ।। ननु लोके काम्यमानस्य साध्यत्वं दृष्टं हरीतकों भक्षयेदारोग्यकामस्तेन 15 वेदेऽपि यजेत स्वर्गकाम इति स्वर्गस्य साध्यत्वमवभोत्स्यामहे । साधो ! लोकेऽपि कथमेतदवगतम्, नियोज्यसमर्पकपदवाच्यपर्यालोचनेन विधिवृत्तपरीक्षया वा।
पदार्थस्तावदेतावानेवङ्कामो ह्यसाविति । इदन्तु सिद्ध्यते तस्मादिति तस्य न गोचरः ॥
20 नियोज्यश्चाण्डालस्पर्शनेनेवेत्यनेन एकादशाद्यपूर्वपक्षोक्तं निमित्तपरत्वं स्वर्गकामादिपदानां प्रदर्शयति । यथेच्छतोऽनिच्छतो वा चाण्डालस्पर्शे जाते स्नानेऽधिकारस्तथा स्वर्ग प्रति य इच्छां करोति तस्य यागेऽधिकार इति ।।
ननु च स्वर्गकामोऽत्रेति । अनेन स्वर्गस्य प्रीतिरूपत्वात्, प्रोतेश्च भाव्यत्वेनैवान्वयो युक्त इति पूर्वं स्थापितं तदेव सूचितम्, चाण्डालस्पर्शे स्नायादित्यत्रेच्छा न श्रु ता, इह तु 25 सा श्रुता, अतोऽत्र साध्यत्वेनैवान्वयो युक्त इति यावत् ।
भवेज्जीवनवानिव । असाध्येऽपि स्वविशेषणे ।