SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ न्यायमञ्जऱ्यां [पञ्चम - इष्यत इति चेत्, नन्वेवं तस्य लिप्सार्थलक्षणेत्यभ्यधायि यत् । __ श्येनादीनामधर्मत्वं वणितं तद् विरुध्यते ।। अथ पूर्वं फलसिद्धिस्ततो नियोगसिद्धिस्तहि फलस्य तदानों दर्शनं 5 भवेत्, सिद्धत्वात् । न च भावार्थवेलायां पुत्रपश्वादि दृश्यते । अदृश्यमानमप्येतत् सिद्धमित्यतिविस्मयः ।। अतश्च यत् कैश्चिदुच्यते स्वर्गसिद्धिमवान्तरव्यापारीकृत्य नियोगमनेन भावार्थः सम्पादयतीति तदप्यपास्तम्, अवान्तरस्य व्यापारस्य ज्वलनादेरिव 10 प्रधानव्यापारात् पूर्वं दर्शनप्रसङ्गादिति । अथोच्यते स्वर्गकामस्य स्वर्ग साध यितुमुद्यच्छतो यागेन योगः सम्पाद्यः, श्रूयते, स च चेत् सम्पन्नः शब्दवृत्तेन फलमपि सम्पन्नमेव । आनुभाविकी तु स्वर्गसिद्धिः कालान्तरे भविष्यतीति एतदयुक्तम्, सिद्धिद्वयानुपलम्भात् । न ह्येका शाब्दी सिद्धिरन्या चानुभाविकी नामेति । कालान्तरे चावुभाविकी सिद्धिः कुतस्त्येति चिन्त्यम् । कालान्तरे च भावार्थः क्षणिकत्वान्न विद्यते । शक्त्यादिरूपञ्चापूर्वं न भवद्भिरुपेयते । भवन्तो ह्यपूर्वशब्देन धर्मशब्देन च नियोगमेवापचरन्ति । न च नियोगः । शक्तिवद् आत्मसंस्कारवद् वा कालान्तरस्थायी भवति । स हि प्रेरणात्मकः, कार्यरूपो वा, नोभयथापि स्थैर्यमवलम्बते, तत्रैतत् स्याद्, नियोगसिद्धिराक्षिप्त श्येनादीनामधर्मत्वमिति । एवं हि श्येनादीनामपि नियोगसाधनत्वादपुरुषार्थसाधनत्वेन न लिप्सातः प्रवृत्तिः स्यात् । सिद्धमित्यतिविस्मय इति । शाव्दसिद्धयभिप्रयोयेणोक्तम् । शब्दवृत्तेन फलमपोति । यथा कस्यचिदमात्यस्य 'राज्ञासौ ते ग्रामो दत्तः' इति यदैवाभिहितं तदैव तस्य साध्यसिद्धया असौ ग्रामः सिद्धः, कालान्तरे तु गत्वा स्वीकारा25 दिनानुभाविकी सिद्धि विनीति । स हि प्रेरणात्मक इति । यदैव हि प्रेरितोऽहमिति प्रतिपत्तिरुपजायते तदैव तस्य सत्त्वम्, यदा वा साध्यमेतदिति तद्विषया प्रवृत्तिस्तदा तस्य साध्यतया सत्त्वम् ।
SR No.002346
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1983
Total Pages384
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy